समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 567, कुल 726 में से
संदर्भ में पढ़ें५०६ समराङ्गणसूत्रधारं
गर्भः स्यान्नवभिर्भागैर्भित्तिः सार्धपदत्रयम् ।
ऊर्ध्वमानमथ ब्रूमस्तथा(द)स्य द्विगुणं भवेत् ॥ ६७ ॥
द्वितीया भूमिका ज्ञेया भागैः पञ्चभिरुच्छ्रिता ।
अन्योन्यं तु पदार्धेन हीनं स्याद् भूमिकाद्वयम् ॥ ६८ ॥
स्तम्भिकाकूटभरणशुकाय्रै(ग्रा)शूरसेनकाः ।
घण्टा(कोरस ?)विस्तार भवन्त्येतस्य पूर्ववत् ॥ ६९ ॥
पद्मप्रासादमेनं यः कारयेद् भक्तिसंयुतः ।
स श्रीपतिरिव श्रीशो भवत्यवनिमण्डनः ॥ ७० ॥
महाभद्रमथ ब्रूमः प्रासादमतिसुन्दरम् ।
चतुरश्रीकृते क्षेत्रे विंशत्या सैकयाङ्किते ॥ ७१ ॥
कोणाश्चतुष्पदाः सार्धद्वयंशाः प्रत्यङ्गकाः स्मृताः ।
शाला पञ्चपदा कार्या दिक्षु सर्वासुव्यवस्थिता ॥ ७२ ॥
पादोनभागविस्तारं कर्तव्यं सलिलान्तरम् ।
गर्भस्त्रयोदशपदो भित्तयश्च चतुष्पदाः ॥ ७३ ॥
ऊर्ध्वमानमथैतस्य ब्रूमस्तद् द्विगुणं भवेत् ।
वेदी चतुष्पदोत्सेधा जङ्घा स्यादष्टभागिका ॥ ७४ ॥
सप्तभागसमुत्सेधा विधेया चादिभूमिका ।
मध्ये सान्तरपत्रास्याः कपोताली पदत्रयम् ॥ ७५ ॥
द्वितीयभूमिका चास्य सार्धैः षड्भिः पदैः स्मृता ।
भागभागविहीनास्तु तिस्रोऽन्या भूमिकास्ततः ॥ ७६ ॥
घण्टा भागत्रयोत्सेधा पद्मपत्रिकया सह ।
स्तम्भिकाकूटभरणशुकाग्राशूरसेनकाः ॥ ७७ ॥
कलशः (कुम्भं नथाः ?) प्राग्वत् तस्य भवन्त्यमी ।
महाभद्रमिमं योऽत्र कारयेद् भक्तिमान् नरः ॥ ७८ ॥
१ द. ग्र। २ द. कालस; मुद्रित प्रतौ 'कलश' इति स्यात् । ३ द. रिवाश्चेसाङ्क° । ४ द.
दाः । ५ द. ताः । ६ द. धो । ७ द. स्तंभकाः कूटभरणा । ८ द. कलशः कुंभनाथाः । ९ द. मां ।