समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 569, कुल 726 में से
संदर्भ में पढ़ें५०८ समराङ्गणसूत्रधारे
श्रीवर्द्धमानं य इमं प्रासादं कारयेन्नृपः ।
यशः श्रीश्रेयसांगस्य वृद्धि स्यादुत्तरोत्तरा ॥ ९० ॥
पद्मयोनिपृथः सद्मश्चथ कीर्त्यते ।
चतुरस्त्रीकृते क्षेत्रे विंशत्येकोनयान्तिके ॥ ९१ ॥
कोणाश्चतुष्पदाः कार्या प्रत्यङ्गा अपि तत्समाः ।
परिवर्तनकर्त्तव्या परस्परममी शुभाः ॥ ९२ ॥
शाला नवांशविस्तीर्णा स्यात् पदत्रयनिर्गमा ।
शालालस्ताश्च कर्त्तव्या द्विभागा बालमञ्जरी ॥ ९३ ॥
कर्णप्रत्यङ्गयोर्मध्ये बालप्रत्यङ्गयोस्तथा ।
जलन्तराणि कार्याणि तत्प्रमाणस्य मध्यतः ॥ ९४ ॥
गर्भः सप्तदशांसः (शः) स्याद्भित्तयः षड्भिरंशकैः ।
ऊर्ध्वमानमथैतस्य ब्रूमस्तद्द्विगुणं भवेत् ॥ ९५ ॥
वेदी षड्भागिकोत्सेधा जङ्घाभागास्त्रयोदश ।
सप्तभागसमुत्सेधा कर्त्तव्या चादिभूमिका ॥ ९६ ॥
षड्भिः सार्धैः द्वितीया स्याद्भागभागोज्झिते परे ।
पञ्चमी स्याच्चतुर्भागा भागार्द्धेन परेत्पृथक् ॥ ९७ ॥
प्रवेशः कूटदम्भैण भूमीनां स्यात् परस्परम् ।
भूमिकार्द्धं विधातव्यं स्तम्भिकाभरणान्वितम् ॥ ९८ ॥
अपरं कूटशोभातिरर्द्धमस्याविभूषयेत् ।
घण्टापञ्चपदोत्सेधा विस्तृता गर्भमानतः ॥ ९९ ॥
सुकाद्याद्य परं यत्तु पूर्ववत्तत् प्रकल्पयेत् ।
महापद्माभिधयोत्र प्रासादं कारयेत् सुधीः ॥ १०० ॥
इहामुत्र च निर्द्वन्द्वः स परं सुखमश्नुते ।
लक्ष्याथ पञ्चशाला प्रासादस्याभिधीयते ॥ १०१ ॥
चतुरस्त्रीकृते क्षेत्रे अष्टाविंशतिपदान्तिके ।
तस्यार्जनफलाः काराः कोणा पञ्चपदाः स्मृताः ॥ १०२ ॥
प्रत्यङ्गास्त्रिपदाः कार्या भागद्वितयनिर्गता ।
शाशा (ला) ष्टपदविस्तारा पदत्रितयनिर्गमा ॥ १०३ ॥