सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 497, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 497

४३४ समराङ्गणसूत्रधारे
विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः ।
विमानमथ वक्ष्यामः प्रासादं शम्भुवल्लभम् ।
स्वर्गपातालमर्त्यानां त्रयाणामपि भूषणम् ॥ १ ॥
सर्वेषां गृहवास्तूनां प्रासादानां च सर्वतः ।
प्रासादो मूलभूतोऽयं तथा च परिकर्मणाम् ॥ २ ॥
एकाशीतिपदे (दं) वास्तु विमाने पञ्चभूमिके ।
कर्णान्तयोः शतपदं प्रासादेष्वपरेषु तु ॥ ३ ॥
ब्रह्मासृजत् पञ्चभौमविमानानि पुरा रवेः २।
मूलकर्णानुगैर्भङ्गैर्द्विगुणोच्छ्रायवन्ति च ॥ ४ ॥
शेषभद्रस्य निष्कासो ३ भद्रदेवचतुष्टयम् ( ? ) ।
आकाशदेवताधार ( ँ च्यथा ? ) विदिक्षु च ॥ ५ ॥
दशधा कृतविस्तारो विमाने सम्प्रकीर्तितः ।
पञ्चभाग्य( ग )प्रमाणश्च गर्भे ५ भित्तिस्तदर्धतः ॥ ६ ॥
प्राग्रीवं भित्तिविस्तारं गर्भायामत्तथायतः ( ? ) ।
ततः प्राग्रीवविस्तारः क्षोभणीयः कराङ्गुलैः ॥ ७ ॥
भागिको रथविस्तारः कर्णिका चार्धभागिकी ।
भागपञ्चकविस्तारं ६ भद्रं यत् ( तत् ) प्रकीर्तितम् ॥ ८ ॥
( ७भूर्णस्तनोवहेस्तस्य ? ) निर्गमो भागिकः ८स्मृतः ।
भागार्धेन विधातव्यः क्षोभणो जलवर्त्मनः ॥ ९ ॥
कर्णिकां जलमार्गं ( च ) समसूत्रेण मापयेत् ।
अथोच्यते भूमिकानां स्तम्भानां चेह लक्षणम् ॥ १० ॥
विस्ताराद् द्विगुणः स्कन्धः सर्वस्मिन् १०बुद्धनागरे ।
++++ पञ्चभागा स्याज्जङ्घाऽध्र्वसमुच्छ्रितिः ॥ ११ ॥
१ द. जे । २ द. रथेः । ३ द. शे । ४ द. धारं चरक्रान्था वि० । ५ द. गर्भोभित्तिस्तदर्द्धितः ।
६ द. र । ७ द. तूर्णीसीम्नो वहिस्तस्य नि० । ८ द. सृतः । ९ द. आरा । १० द. °च्छुद्ध° ।