समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 498, कुल 726 में से
संदर्भ में पढ़ेंविमानादिचतुष्षष्टिप्रसादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४३५
१तिलकानां तथोच्छ्रायो विधानव्यो द्विभागिकः ।
तिलकस्य शिरोघण्टां चैकसूत्रेण मापयेत् ॥ १२॥
जङ्घामानत्रिभागेन खुरपिण्डीं प्रकल्पयेत् ।
खुरकं वेदिबन्धं च समसूत्रेण मापयेत् ॥ १३॥
३जङ्घामानत्रिभागेन खुरपिण्डीं प्रकल्पयेत् ।
खुरकं वेदिबन्धं च समसूत्रेण सूत्रयेत् ॥ १४॥
द्वितीयभूमिकोत्सेधं सिंहकर्ण विभूषयेत् ।
मस्तके घण्टया युक्ता चतुर्भागोच्छ्रिता च सा ॥ १५॥
ततस्तृतीयभूत्सेधः पदतुल्यांशवर्जितः ।
चतुर्थी भूमिका कार्या सार्धभागत्रयोच्छ्रिता ॥ १६॥
मञ्जरीस्तम्भयोर्मध्ये सवातायनमेखला ।
द्वितीया भूमिका या सा सिंहकर्णैरलङ्कृता ॥ १७॥
तस्या द्वारं विधातव्यं कपाटद्वयसंयुतम् ।
(स्याद्वर्द्वात् ?) पाटितं द्वारं तृतीयायां सदा भुवि ॥ १८॥
पादे(दो) नद्विपदोत्सेधा तदूर्ध्वं वेदिमेखला ।
कैरवाणां दलैर्युक्ता कर्तव्या दृष्टिहारिभिः ॥ १९॥
वेदिका पञ्चविस्तारा कार्या भागसमुच्छ्रिता ।
ग्रीवार्धभागिकोत्सेधा घण्टैकं११ भागमुच्छ्रिता१२ ॥ २०॥
पञ्चभाग + विस्तारा घण्टाकोटिर्विधीयते ।
(कुमान्दं ?)वेदिबन्धं च घण्टाग्रं मस्तकोदयम् ॥ २१॥
मापयेत् समसूत्रेण समन्ताद् भूमिपञ्चके ।
व्यार्रार्धहस्तसङ्ख्यानि(प्रवेशो ?) प्रथमं क्षितेः ॥ २२॥
अङ्गुलानि तदा ह्यर्थौ द्वितीयायाः प्रकीर्त्तिताः (?)।
संयोगादनयोर्यः१६ स्यात् तृतीयायास्तमादिशेत् ॥ २३॥
१ द. वि. । २ द. सूत्र । ३ द. अयं श्लोकः नास्ति । ४ द. सिंहं कर्णे विं० । ५ द. ताः ।
६ द. ताः । ७ द. संपुटं । ८ द. स्यादर्द्धोद्घाटितं । ९ द. द्वि । १० द. चो । ११ द. के ।
१२ द. प्रतौ इतः परं "ग्रीवार्ध भागिकोत्सेधां घण्टैकं भाग मुच्छ्रिता ॥” अयं अधिकः पाठः । १३ द.
कुमदं । १४ द. शः । १५ द. तः । १६ द. र्यन् ।