सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 422, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 422

मेर्वादिर्विंशिका नाम सप्तपञ्चाशोऽध्यायः । ३५९
पदार्धमासनं कार्यं द्व्यंशं चन्द्रावलोकनम् ।
ऊर्ध्वमासनपट्टस्य स्तम्भः पञ्चपदान्वितः ॥ १०० ॥
( पञ्चपदान्वितः ? )
भरणं स्तम्भशीर्षं च पदेन स्यात् समुच्छ्रितम् ।
छाद्यकेनावृतं कुर्यात् पदेनैकेन पट्टकम् ॥ १०१ ॥
द्विपदस्थः प्र ( इच्छाच )विस्तारैः पदेनैकेन लम्बनम् ।
ऊर्ध्वमन्तरपत्रस्य कथयामो यथास्थितम् ॥ १०२ ॥
चतुष्पदेषु कर्णेषु ये कर्णाः पदिकाः स्थिताः ।
तेषु ³(बिखरकाः ?) कार्या विस्तारोच्छ्रायतः पदम् ॥ १०३ ॥
कलशोनं तथा ग्रीवा पदार्धेन समुच्छ्रितौ ।
द्विपदः सिंहकर्णस्तु विस्तारोच्छ्रायतः समः ॥ १०४ ॥
⁵( शिखिरोऽध ? ) विधातव्या त्रिपदी⁶ कर्णमञ्जरी ।
ऊर्ध्वं च त्रिपदा स (सा) स्याद् द्विपदा स्कन्धविस्तृतिः ॥ १०५ ॥
सार्धभागेन कर्तव्यं सग्रीवं कलशाण्डकम् ।
सिंहप्रासादवत् कर्णा विधेयाः शुभलक्षणाः ॥ १०६ ॥
मूलमानेन विस्तीर्णा निर्गूं(गू)ढस्योपरि स्थिताः ।
द्वितीयश्च तृतीयश्च तदूर्ध्वं च समुच्छ्रितः ॥ १०७ ॥
कर्णस्थकलशादूर्ध्वं कर्तव्या मूलमञ्जरी ।
विस्तारो दशभागांशानु(गःस्यादु)च्छ्रायो द्वादशांशकैः ॥१०८॥
लताभिः पञ्च(वि ?)मिर्युक्ता विचित्रैश्चापि कर्मभिः ।
षट्पदोऽस्य स्मृतः स्कन्धो ग्रीवा चास्य चतुष्पदा ॥ १०९ ॥
विस्तारेण समाख्याता पादोनं पदमुच्छ्रितां ।
अण्डकां(कं)¹¹ साङ्घ्रिभागेन (भैवि ?) षड्भागविस्तृतम् ॥११०॥
१ द. प्रतौ नास्ति । २ द. र । ३ द. खिंखुरका कार्या । ४ द. ताः । ५ 'शिखराधो' इति
स्यात् । द. खिंखरोर्द्धं वि° । ६ द. दा । ७ द. निर्यूहस्यो° । ८ द. या । ९ द. का । १० द. ताः ।
११ द. सां ह्रिं° । १२ द. भवेत् षं° ।