सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 421, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 421

३५८ समराङ्गणसूत्रधारे
भित्तिः स्यात् पदविंशत्या तत्र कन्दसमाः सृ(स्मृ¹)ताः ।
कर्णाः प्रत्यङ्ग²को(का³)न्येषां प्रत्येकं पदविस्तरात् ॥ ८९ ॥
द्वयंशो मध्यंग³विस्तार उभयोर्निर्गतँ⁴(म)ः पदम् ।
द्वयंशः सैरसि⁵(?)विस्तार आक्रान्त⁶पदनिर्गमैः ॥ ९० ॥
द्विपदा बाह्यभित्तिः स्याद् विस्तारेण सुशोभिताँ⁷(ः ?) ।
चतुष्पदायतः कर्णो भद्रं तस्य द्विभागिकम् ॥ ९१ ॥
निर्गमोऽस्यार्धभागेन स्यादेवं सुन्दरं कृतम् ।
कर्णे कोणासु⁸(स्तु) पदिका दिक्षु सर्वासु शोभनाः ॥ ९२ ॥
निगूढ⁹विस्तरः कार्यः सार्ध(र्ध)पञ्चपदोन्मितः ।
द्विपदो निर्गमस्तत्र सर्वदिक्षु विधीयते ॥ ९३ ॥
सलिलान्तरकं कुर्यादन्तरे कर्ण¹⁰भद्रयोः ।
प्रविष्टं पदमानेन पदपादेन विस्तृतम् ॥ ९४ ॥
ऊर्ध्वमानमथैतस्यै¹¹ यथावदभिधीयते ।
रोज¹²पीठं विधातव्यं भागार्धेनातिसुन्दरम् ॥ ९५ ॥
ऊर्ध्वभागेन खुरकँ¹³पीठं स्याच्चतुरंशकम् ।
द्विपदः कुम्भकोत्सेधः पादोनं सोम¹⁴(स्यान्म)सूरकम् ॥ ९६ ॥
भागार्धेनान्तरं पत्रं पादोनांशेन मेखलाः ।
षड्भागमुच्छ्रिता जङ्घा भागेन ग्रासपट्टिकाँ¹⁵(ः ?) ॥ ९७ ॥
मेखलान्तरपत्रे च प्रत्येकं पदकें¹⁶ स्मृते ।
पट्टा¹⁷दधस्खुरादूर्ध्वं भागा सैकां¹⁸ दशान्तरम् । (?) ॥ ९८ ॥
रोजा¹⁹सनं पदं प्रोक्तमुत्सेधं(घे)नातिशोभनम् ।
अर्धेनात्यं²⁰धिके कार्ये द्वे पदे वेदिकोच्छ्रयः ॥ ९९ ॥
१ द. त्रि । २ द. त्र । ३ द. ॰ध्यंगं॰ । ४ द. तः । ५ द. शि । ६ द. न्तः । ७ द. ताः ।
८ द. ना । ९ द. निर्गू(र्व्यू-गूर्य)ह । १० द. भद्रकर्णयोः । ११ द. क । १२ द. ग । १३ द. ॰कं ।
१४ द. नांशगसू॰ । १५ द. का । १६ द. दि । १७ 'पट्टादधः खुरादूर्ध्वं भागास्त्वेकादशान्तरम्' इति
स्यात् । द. पट्टादधः खु॰ । १८ द. च्चैका । १९ द. राजसेनं पदे प्रोक्तं उत्सेधेना' । २० द. ॰भ्य॰ ।