समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
DevanagariHindipublished726 पृष्ठ
पृष्ठ 312, कुल 726 में से
संदर्भ में पढ़ेंपृष्ठ 312स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः । २४७
स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः । २४७
अकांलमृत्युर्लोकस्य विचरेद् वसुधातले ।
यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः ॥ ८ ॥
स मुह्यति क्रियाकाले दृष्ट्वा भीरुरिवावहम् ।
केवलं कर्म यो वेत्ति शास्त्रार्थं नाधिगच्छति ॥ ९ ॥
सोऽचक्षुरिव नीयेत विवशोऽन्येन वर्त्मसु ।
कर्म वास्तुविधेः स्थानं मानमुन्मानमेव च ॥ १० ॥
क्षेत्रजाति(नि)³ च कर्माणि लुमालेखाच(श्च)⁴तुर्दश ।
चत्वा(तु)⁵रो गण्डिकाच्छेदाँन् वृत्तच्छेदैषु⁶ सप्तसु ॥ ११ ॥
सुश्लिष्टं सन्धिसन्धानैरधरोत्तरसंयुतम् ।
बाह्यरेखान्वितं शुद्धं यो जानाति स कर्मवित् ॥ १२ ॥
शास्त्रकर्मसमर्थोऽपि स्थपतिः प्रज्ञया विना ।
फलेयुः कर्मभिरन्याभिः(?) स्यान्निर्मद इव द्विपः ॥ १३ ॥
प्रत्युत्पन्नमतिर्यः स्याद् वाहंतः(कः) स्थपतिस्तथा ।
कर्मकाले न मुह्येत स प्रज्ञानेनोपबृंहितः ॥ १४ ॥
अप्रज्ञेयं दुरालोकं गूढार्थं बहुविस्तरम् ।
प्रज्ञापोतं समारुह्य प्राज्ञो वास्तुनिरां(?) तरेत् ॥ १५ ॥
ज्ञानवांश्च तथा वाग्मी कर्मस्वपि च निष्ठितः ।
एवं युक्तोऽपि न श्रेयान् यदि शीलविवर्जितः ॥ १६ ॥
रोषाद् द्वेषात् तथा लोभान्मोहाद् रागात् तथैव च ।
अन्यंचिन्त्यत्वमायाति दुःशीलानामविक्षयात्(?) ॥ १७ ॥
शीलवान् पूजितो लोके शीलवान् साधुसम्मतः ।
शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः ॥ १८ ॥
शीलाँधाने¹² परं यत्नमाधि¹³(ति)ष्ठेत् स्थपतिः सदा ।
ततः कर्माणि सिध्यन्ति जनयन्ति शुभानि च ॥ १९ ॥
१ द. अकाललोकम्त्यस्य । २ द. ख. ल्पेन । ३ क. डि । ४ ख. ग. दा त्रु । ५ क. ख. ग.
च्छा; द. च्छांष्टृ । ६ ख. ग. प्य । ७ ख. द. ह्यतः । ८ द. रे । ९ द. वास्तुर्न नाचरेत् ; ख. ग.
स्तुर्ननाचरे । १० द. न्यं । ११ क. र्वा । १२ ख. ग. द. ल । १३ ग. घेध्वे स्थ; द. ॰माघेध्वे स्थ° ।