सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 313, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 313

२४८ समराङ्गणसूत्रधारे
तथाचाष्टविधं कर्म ज्ञेयं स्थपतिना सदा ।
आलेख्यं लेख्यजातं^१ च दारुकर्म चयस्तथा^२ ॥ २० ॥
पाषाणसिद्धहेम्नां^३ च ^४शिल्पं कर्म तथैव च ।
एभिर्गुणैः समायुक्तः स्थपतिर्यानि^५ पूज्यताम् ॥ २१ ॥
स्थापत्यमङ्गैरिदमष्टभिर्गश्चतुर्विधं वेत्ति विशुद्धबुद्धिः ।
स शिल्पिनां संसदि लब्धपूजैः परां प्रतिष्ठां लभते चिरायुः ॥२२॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
स्थपति^७लक्षणं नाम चतुश्चत्वारिंशोऽध्यायः ॥
अथ अष्टाङ्गलक्षणं नाम पञ्चचत्वारिंशोऽध्यायः ।
प्रोक्तं चतुर्धा स्थापत्यं वास्तुतत्त्वस्य सिद्धये ।
ब्रूमस्तदेव चेदानीमङ्गैः संयुक्तमष्टभिः ॥ १ ॥
तेष्वङ्गं प्रथमं प्रोक्तं वास्तुपुंसो विकल्पना ।
पुरस्य विनिवेशस्तु द्वितीयं द्वारकर्म च ॥ २ ॥
रथ्याविभागः प्राकारनिवेशोऽट्टालकस्य च ।
विनिवेशः प्रतोलीनां विभागस्थानकानि च ॥ ३ ॥
प्रासादश्च तृतीयं स्याच्चतुर्थं तु ध्वजोच्छ्रितिः ।
पञ्चमं नृपतेर्वेश्म स्थानान्तरविभक्ति च ॥ ४ ॥
चातुर्वर्ण्यविभागश्च गृहभागश्च षष्ठकम् ।
सप्तमं यजमानस्य शालायां मानमीरितम् ॥ ५ ॥
यज्ञवेदीप्रमाणं च कोटिहोमविधिस्तथा ।
अष्टमं राजशिविरनिवेशो दुर्गकर्म च ॥ ६ ॥
१. लेख्यज्ञानं च यत्तु कँ । २ क. त । ३ द. म्ना । ४ ख. ग. कल्पे धर्म; द. कल्पे धर्म्य तँ ।
५ द. ˚जां । ६ ग. य; द. थः ७ द. स्थपतिलक्षणाध्यायो नाय चतुश्चत्वारिंशः ॥ ङ ॥
८ द. दं ।