समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 311, कुल 726 में से
संदर्भ में पढ़ें२४६ समराङ्गणसूत्रधारे
संप्रधार्य च मेधावी बलाबलमतन्द्रितः ।
निर्दिशन् बलमाप्नोति धनमायुर्यशस्तथा ॥ ४९ ॥
³ऐवमादिकनिमित्तसूचितं संप्रधार्य ⁴मतिमान् बलाबलम् ।
स्पष्टमादिशति योऽत्र शास्त्रवित् कीर्त्तिवित्त+ध(भव) ⁵नानि
सोऽश्नुते ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
द्वारभङ्गफलं⁶ नाम त्रिचत्वारिंशोऽध्यायः ॥
अथ स्थपतिलक्षणं नाम चतुश्चत्वारिंशोऽध्यायः ।
स्थापत्यमुच्यतेऽस्माभिरिदानीं प्रक्रमागतम् ।
ज्ञातेन येन ज्ञायन्ते स्थपतीनां गुणागुणाः ॥ १ ॥
शास्त्रं कर्म तथा ⁷प्रज्ञा शीलं च क्रिययान्वितम् ।
लक्ष्यलक्षणयुक्तार्थशास्त्रनिष्ठो नरो भवेत् ॥ २ ॥
सामुद्रं गणितं चैव ज्योतिषं छन्द⁹ एव च ।
सिराज्ञानं तथा ¹⁰शिल्पं यन्त्रकर्मविधिस्तथा ॥ ३ ॥
एतान्यङ्गानि जानीयाद् वास्तुशास्त्रस्य बुद्धिमान् ।
शास्त्रानुसारेणाभ्युद्य लक्षणानि¹¹ च लक्षयेत् ॥ ४ ॥
प्रसिद्धशास्त्रदृष्टान्तैर्वास्तुज्ञानं प्रसाधयेत् ।
वास्तुनः ससिरावंशैर्मर्मवेधैः¹² सुनिश्चितैः ॥ ५ ॥
वास्तुद्वारक्षैणान् भूयः सर्वान् जानाति शास्त्रतः ।
यस्तु शास्त्रमविज्ञाय प्रयोक्ता स्थपतिर्भवेत् ॥ ६ ॥
हन्तव्यः स स्वयं राज्ञा मृत्युवद्¹³ राजहिंसकः ।
मिथ्याज्ञानादहङ्कारी शास्त्रे चैवाकृतश्रमः ॥ ७ ॥
१ द. यः । २ क. श्यनब । ३ द. चय ? । ४ द. सुमं° । ५ क. नमानि । ६ द. °फलाध्यायो
नाम त्रिचत्वारिंशः ॥ छ॥ ७ द. प्रां° । ८ द. क्वचित्°; ख. ग. वित्तो न । ९ द. छंदयेव । १० ख.
ग. शल्यं य । ११ द. ख. ग. लक्षणेन च; । १२ ख. ग. वे । १३ द. मृ रोगनार्याहिंसकः ।