समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 310, कुल 726 में से
संदर्भ में पढ़ेंद्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः । २४१
गवाक्षस्तु विनश्येत पट्टस्तम्भोऽपि वा दृढः ।
गजशुण्डाथ भिन्नोऽश्वः कपोनाल्यथवा नवा ॥ ३८ ॥
स्थपनीपट्टिकांश्चैव स्त्रीविनाशं तदोदिशेत् ।
विटङ्कस्य तुलाया वा भङ्गे जाते कथञ्चन ॥ ३९ ॥
शालास्तम्भस्य वा नाशे भार्या तस्य विनश्यति ।
स्तम्भशीर्षं यदि भर्येत् स्फुटेत् स्तम्भोऽपि वा दृढः ॥ ४० ॥
भज्यंते प्रतिमोको वा स्वामिनस्तु वधो भवेत् ।
भङ्गे तु भङ्गवाहिन्याः कुलवृद्धवधो भवेत् ॥ ४१ ॥
आकाशंतलके पुत्राः प्रतिच्छन्ने कुटुम्बिनः ।
विनष्टे च विनश्यन्ति षड्भिर्मासैर्न संशयः ॥ ४२ ॥
प्रासादमण्डले भग्ने भग्नासु वलभीषु च ।
भार्या कुटुम्बिनस्तस्य नाशमायात्यसंशयः ॥ ४३ ॥
प्रलीनो वा विलीनो वा प्रासादो यस्य भज्यते ।
प्रलीने भृत्यमृत्युः स्याद् विलीने तु धनक्षयः ॥ ४४ ॥
मिश्रे विनष्टे प्रासादे हीयन्ते सर्ववृद्धयः ।
मरणं वा भवेत् तत्र कुष्ठव्याधिं चै निर्दिशेत् ॥ ४५ ॥
येषु स्थानेषु भङ्गो वा विनतिर्वा प्रकीर्तिताँ ।
उपद्रुतिर्विघातो वा तेषां फलमपीरितम् ॥ ४६ ॥
स्निग्धानि यदि दृश्यन्ते तानि दाढर्यान्वितानि च ।
धनमायुश्च हर्षं च पूर्वोक्तानां तदादिशेत् ॥ ४७ ॥
कर्णिकाभ्यन्तरी स्थूणा शालापादोऽथ हीयते ।
यदि तद् दुःखमाप्नोति गृहभर्ता न संशयः ॥ ४८ ॥
१ ख. ग. द. पुट° । २ द. गजस्त्वंद्राथभिन्नश्च; ख. स्त्वंद्राथ, ग. स्वंब्यथ । ३ ख.
ग. नश्च । ४ ख. ग. द. चैव; चै । ५ क. भवेत् । ६ ख. द. मा । ७ ख. ग. द. र्षे ।
८ द. भ्रष्टस्फटे; ख. ग. ष्ट्रे । ९ द. प्रयते । १० क. शे । ११ द. ॰को । १२ द. न्नं । १३ द.
. प्रमादं° । १४ ख. ग. द. यते । १५ द. ख. ग. वृद्धिदः; । १६ द. ॰व्याधेव निं; क. वि ।
१७ क. ख. ग. द. तः । १८ द. °विज्ञोनो । १९ ख. ग. द. ये । २० द. कार्तिकाभ्यांतरी ।