सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 309, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 309

२६४ समराङ्गणसूत्रधारे
श्रेष्ठा¹ तु महिला तत्र षड्भिर्मासैर्विर्नश्यति ।
एवमेव नवं यस्य सदनं तु विनश्यति ॥ २७ ॥
प्रेष्यदासाँ²दिविश्वासात्³ तँदू⁴ विनाशयति ध्रुवम् ।
पृष्ठवंशो नवो यस्य नवकर्मणि भिद्यते⁵ ॥ २८ ॥
कुटुम्बी म्रियते तत्र गृहं संवत्सरात् परम् ।
प्रेष्याश्चात्र विनश्यन्ति दीर्यमाणे⁶ विशेषतः⁷ ॥ २९ ॥
लुमासु भिद्यमानासु कन्यामरणमादिशेत् ।
मुण्डकेषु विनष्टेषु सुहृर्दस्य⁸ विनश्यति ॥ ३० ॥
अनुपूर्वेषु भिन्नेषु⁹ पुत्राणां मरणं ध्रुवम् ।
विपत्तौ मुँण्डगोधानां¹⁰ माता तस्य विनश्यति ॥ ३१ ॥
नागँ¹¹पाशकभङ्गे¹² तैं¹³ भृत्यानां मरणं भवेत् ।
कपाटे भ्रातृमरणँ¹३मर्गलायां स्त्रिया वधः ॥ ३२ ॥
सुतस्य चार्गलापार्श्वे¹⁴ विनष्टे मरणं भवेत् ।
द्वारबन्धे विनष्टे तु शीघ्रं कुँर्यात् कुलक्षयम् ॥ ३३ ॥
इन्द्रकीलो दृढो यस्य भङ्गमायाति मूलतः ।
सपुत्रपशुवर्गस्य तस्य ब्रूयात् कुलक्षतिम्¹५ ॥ ३४ ॥
तोरणं भज्यते यस्य द्रव्यं तस्य विनश्यति ।
गृहभर्तुश्च मरणं त्रिदशैरवधारयेत् ॥ ३५ ॥
वास्तुमध्ये विनष्टे तु कुलवृद्धो विनश्यति ।
सोपानं भिद्यते यत्र नवकर्मणि निश्चिते ॥ ३६ ॥
तस्य प्रेष्याश्च गावश्च हिरण्यं च विनश्यति ।
वेदिका भज्यते यस्य भार्या तस्य विनश्यति ॥ ३७ ॥
१ श्रेष्ठयातु । २ द. प्रेष्यां दस्सा सिविश्वास्यास्तद्भिभासयति°; क. क्ष. । ३ ख. ग. सिविश्वा-
स्यास्तद् विभासय । ४ क. तं वि । ५ ख. ग. द. भज्यते । ६ ख. ग. वी; द. वीर्यमाणो ।
७ क. प्यमानो वि । ८ द. °स भयं°; ख. ग. भज्यमा । ९ ख. ग. त्त । १० द. पं° ।
११ द. °कं° । १२ क. षु । १३ द. °णं° । १४ द. व; क. व्य । १५ ख. ग. ब्रयान् ।
१६ ख. ग. द. यम् । १७ ख. ग. द. भज्यते ।