समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 308, कुल 726 में से
संदर्भ में पढ़ेंद्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः । २४३
उत्तरे रमणीये तु पुरभागे नरेश्वरः ।
शत्रून् विजयते सर्वान् वर्धते च पुरोहितः ॥ १६ ॥
यदि पूर्वोत्तरो भागः पुरस्य प्रियदर्शनः ।
यत्राभ्युत्तरमानन्दं क्षिप्रं राज्ञो विनिर्दिशेत् ॥ १७ ॥
निष्पन्नस्य पुरादेर्यो भागो न स्यान्मनोरमः ।
तस्य तस्यैव भागस्य परिहाणिं विनिर्दिशेत् ॥ १८ ॥
नवे यदि पुरद्वारे कपाटं प्रविशीर्यते ।
स्त्रीनामधेयमन्यद् वा स्त्रीनाशं तद् विनिर्दिशेत्³ ॥ १९ ॥
देवागारे पुरद्वारे प्राकाराट्टालकेषु च ।
हस्तिशालाश्वशालासु रथशालास्त(ख)थापि वाँ ॥ २० ॥
कोष्ठागारायुधागारे निमित्तं तु शुभाशुभम् ।
यदि किञ्चित् प्रदृश्येत राज्ञस्तदभिनिर्दिशेत् ॥ २१ ॥
भङ्गो यत्रोर्ध्ववंशस्य तत्र राजा विनश्यति ।
अर्गलापीलिकाकुश्रीमङ्गे च नवकर्मणि ॥ २२ ॥
ग्रामे नश्यन्ति चैतानि तदा ग्रामो विनश्यति ।
द्वि(दि)गुत्थितं तु राष्ट्राणां गृहार्थेषु कुटुम्बिनाम् ॥ २३ ॥
नवकर्मणि¹¹ यत्किञ्चिद् भज्यते यदि वा नमेत्¹² ।
¹³वि(ध्व)स्ते वा स्फुटे वापि कुटुम्बिन्मरणं ध्रुवम् ॥ २४ ॥
फलं सर्वनििमित्तेषु शुभं वा यदि वाशुभम् ।
संवत्सरं परं ग्राह्यं नवकर्मकृते गृहे ॥ २५ ॥
परिसंवत्सरान्ते च पुराणमिति निर्दिशेत् ।
तुम्बिका भज्यते यत्र नवकर्मणि निश्चिते ॥ २६ ॥
१ द. रा । २ द. ॰न्दं । ३ ख. ग. ॰त् ॥ देवागारे पुरद्वारे पुन्नाम यदि भज्यते । तत्र
राजा विनश्येत स्त्रीनाम यदि तत् स्त्रियः ॥ देवा; द. देवागारे पुरद्वारे पुन्नामयदि भज्यते । तत्र राजा
विनष्येतस्त्रीनाम यदि तत् स्त्रियः ॥ ४. द. च. । ५ द. का. । ६ द. का । ७ द. यच्चत् किं॰ ।
८ क. पि । ९ ख. द. शुचीभं ग. शुची; । १० द. क्ति । ११ द. र्मणि । १२ द. नयेत् ।
१३ ख. ग. द. विथंङ्गे वा । १४ द. नसरणं । १५ क. गुह्यका ।