सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 268, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 268

अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । २०१
बध्यन्ते ते ग्रहैर्दिव्यैर्व्याधिभिश्च विचिन्तनाः ।
कव्यहव्यक्रियास्तत्र भर्तुर्न विजयावहाः ॥ ७१ ॥
द्विजानामुपतापाया जायन्ते तत्र वाजिनः ।
अनुवंशं च शालायां स्थानमश्वस्य नेष्यते ॥ ७२ ॥
स्वामिनस्तदजीर्णाय स्यान्नाशाय च वाजिनाम् ।
स्थाने प्रशस्ते तुरगान् सर्वथा वासयेदतः ॥ ७३ ॥
न च धार्याः क्षणमपि रोगिणः कल्यैस्सन्निधौ ।
कल्यानामपि रोगाः स्युर्यतो रोगिसमाश्रयात् ॥ ७४ ॥
ह्यागारस्य पूर्वेण कार्यं भेषजंमन्दिरम् ।
तस्यैव वामतः सर्वसंभारान् परिकल्पयेत् ॥ ७५ ॥
वाजिनां भेषजार्थाय भाण्डानि च विनिक्षिपेत् ।
अगदानोषधीः स्नेहान् वर्तीश्च लवणानि च ॥ ७६ ॥
भेषजागारसविधे कुर्याच्चारिष्टमन्दिरम् ।
भवनं व्याधितानां च कार्यं वासाय वाजिनाम् ॥ ७७ ॥
सुगुप्तं तच्च कर्तव्यं पूर्वनिर्दिष्टवेश्मवत् ।
संबद्धं च विधातव्यमेतद् वेश्मचतुष्टयम् ॥ ७८ ॥
सुधाबन्धदृढैः कुड्यैः सप्रांग्रीवोक्ततोरणम् ।
चत्वार्यपि विशालानि सुगमानि च कारयेत्
वेश्मस्वेवंविधेष्वश्वान् स्थापितान् परिपालयेत् ॥ ७९ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः ॥
१ क. ॰नां । २ द. ख. ॰ल्यं । ३ द. ख. ॰ल्यां । ४ द. ख. ग. ॰गे॰ । ५ द. ख.
तेयज । ६ द. ख. ॰ग्यान । ७ द. ख. ग. ॰नि । ८ द. ख. ॰ह्रौँ । ९ द. ख. ॰त्तां ।