समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 269, कुल 726 में से
संदर्भ में पढ़ें२०४ समराङ्गणसूत्रधारे
अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः ।
राज्ञां सेनापतीनां च वर्णिनामपि वेश्मसु ।
यदि वा वास्तुकक्षासु सभादेवकुलेषु च ॥ १ ॥
शयनासनयानेषु भाजनाभरणेषु च ।
छत्रध्वजपताकासु सर्वोपकरणेषु च ॥ २ ॥
अप्रयोज्यानि यानि स्युः प्रयोक्तव्यानि यानि च ।
विस्तरात् तानि कथ्यन्ते हितार्थमथ देहिनाम् ॥ ३ ॥
पूर्वोक्तानां नृपादीनां यानि वेश्मसु केवलम् ।
अप्रयोज्यानि तान्येव पूर्वमत्रामिदध्महे ॥ ४ ॥
तेषु नैवं प्रयोक्तव्याः समस्ता अपि देवताः ।
दैत्या ग्रहास्तथा तारा यक्षगन्धर्वराक्षसाः ॥ ५ ॥
पिशाचाः पितरः प्रेताः सिद्धविद्याधरोरगाः ।
चारणा भूतसङ्घाश्च तेषां योषाः सुतास्तथा ॥ ६ ॥
प्रतीहाराः प्रतीहार्यस्तेषामधिकृताश्च ये ।
आयुधानि तदीयानि सर्वे चाप्सरसां गणाँः ॥ ७ ॥
दीक्षितव्रतिंपाषण्डिनास्तिकाः क्षुत्प्रपीडिताः ।
व्याधिबन्धनशस्त्राग्नितैलासृक्पङ्कपांसुभिः ॥ ८ ॥
शूलज्वरादिभिश्चार्ता येऽन्येऽप्येवंविधा नराः ।
मत्तोन्मत्तजडक्लीबनग्नान्धबधिरादयः ॥ ९ ॥
दोलाक्रीडाश्च नेष्यन्ते ग्रहणानि च दन्तिनाम् ।
देवासुराद्याः सङ्ग्रामा विग्रहाश्च महीक्षिताम् ॥ १० ॥
प्राणियुद्धविमर्दाश्च मृगया च न शस्यते ।
रौद्रैदीनाद्भुतत्रासबीभत्सकरुणा रसाः ॥ ११ ॥
१ द. ख. ग. बाह्यक° । २ द. ख. तेनैव प्र° । ३ द. ख. गतः । ४ द. ख. क. °व्रतपा° । ५ द. ख. लोद्रा° ।