समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 267, कुल 726 में से
संदर्भ में पढ़ें२०२ समराङ्गणसूत्रधारे
उदेति पृष्ठतो भानुः पुरतोऽस्तं प्रयाति च ।
न भवेद् विजयस्तेन भर्तुस्तत्पृष्ठवर्तिनः ॥ ५९ ॥
शक्रस्य पृष्ठवर्तित्वात् प्रातिलोम्याच्च भास्वतः ।
कुप्यन्ति व्याधयस्तेषां तूर्णं देहविनाशनाः ॥ ६० ॥
तैस्ते ध्यायन्ति वेपन्ते जले त्रासं प्रयान्ति च ।
यवसं नाभिनन्दन्ति क्षमां मुञ्चन्ति सर्वथा ॥ ६१ ॥
दिशांऽभिमुखमाग्रेय्या बध्यन्ते यदि वाजिनः ।
व्यथन्ते¹ रक्तपित्तोत्थैस्तदा रोगैरनेकधा ॥ ६२ ॥
जायन्ते स्वामिनो बन्धवधहृच्छोषदायिनः ।
वाजिनां च भवेत् तत्र वह्निदाहकृतं भयम् ॥ ६३ ॥
भर्तुः पराजयो विघ्नैः स्याच्च देहस्य संशयः ।
नैरृत्याः ककुभो वाहा बध्यन्ते संमुखं यदि ॥ ६४ ॥
तदा न तेऽभिनन्दन्ति खादनं पानभोजने ।
यथा यथा क्षितिं पादैर्दारयन्ति पुनः पुनः ॥ ६५ ॥
हेषन्ते वीक्ष्य बहुशो मनुष्यान् पक्षिणः पशून् ।
भ्रमयन्ति च गात्राणि नैरृतीं चाभितः स्थिताः ॥ ६६ ॥
तथा तथैषां कुपिता नाशं कुर्वन्ति राक्षसाः ।
बध्यन्ते यदि वाज्ञानाद् वायव्याभिमुखं हयाः ॥ ६७ ॥
तदा ते वांतिकै रोगैः पीड्यन्ते प्रतिवासरम् ।
चलः कायो भवेद् भर्तुः क्लेशश्चाश्वोपजीविनाम् ॥ ६८ ॥
नराणां च भवेन्मृत्युर्दुर्भिक्षप्रभवं भयम् ।
ऐशान्यभिमुखं बद्धाः प्रणश्यन्ति तुरङ्गमाः ॥ ६९ ॥
सूर्योदयस्याभिमुखं बद्धानां चेदमादिशेत् ।
निबध्यन्ते यदा वाहा ब्राह्मीं दिशमुपाश्रिताः ॥ ७० ॥
१ द. ख. ताप्यन्ते । २ द. य. °र्क° । ३ द. ख. °घ्नै । ४ द. ख. °नि° । ५ द. ख.
°न्तः । ६ द. ख. °तीमभितः ° । ७ द. ख. °चि° ।