सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 266, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 266

अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । २०१
एवं कृते भूमिबलमित्राणां यशसोऽपि च ।
वृद्धिर्भवति भूपस्य तस्मात्¹ प्राची प्रशस्यते ॥ ४७ ॥
भर्तृवृद्धिप्रदं स्थानमग्र्यग्रासस्य तद् भवेत् ।
दक्षिणाभिमुखायां तु शालायां वाञ्छितार्थदम् ॥ ४८ ॥
स्थानं भवति वाहनां पदे² कॢप्तं विभावसोः ।
वह्निनाध्यासिता सा दिग्³ आत्मा वह्निश्च वाजिनाम् ॥ ४९ ॥
अजरो बहुभोक्ता च तत्र बद्धो भवेद्धयः ।
उदङ्मुखेऽपि भवने प्राप्नुवन्ति शुभं हयाः ॥ ५० ॥
तथास्थितानामश्वानां दक्षिणेन दिवाकरः ।
उदेत्यनन्तरं याति तान् ⁴विधाय प्रदक्षिणम् ॥ ५१ ॥
प्रयाति वामँतोऽश्वं च (श्वानां) स्थाप्यास्तेनोत्तरामुखाः ।
चन्द्रार्कौ प्रतिहर्ष (हेष)न्ते तथा बध्नीत⁶ वाजिनः ॥ ५२ ॥
नृपतिश्च जयं सिद्धिं पुत्रानायुश्च विन्दति ।
⁷अरोगाश्च भवन्त्यश्वा वर्धयन्ति च सन्ततिम् ॥ ५३ ॥
दक्षिणाभिमुखान् कुर्यान्न सन्नाह्यान् न चाग्रगान् ।
पितृकार्यादृतेऽन्यत्र दक्षिणा वर्जितैव दिक् ॥ ५४ ॥
अस्यामेव दिशि प्रेता यतः सर्वे प्रतिष्ठिताः ।
उदेति वामतो याति चास्तं दक्षिणतो रविः ॥ ५५ ॥
सोमश्च पृष्ठे भवति तेनाश्वा दैवपीडिताः ।
ग्रहैर्विकारैर्विविधैः पीड्यन्तेऽरातिविह्वलाः ॥ ५६ ॥
भयेन व्याधिभिश्चार्ता ग्रासं नेच्छन्ति खादितुम् ।
पराजयमपुष्टिं च स्वामिनोऽनर्थसङ्गतिम् ॥ ५७ ॥
कुर्वन्त्यतो न बध्नीयात् कथञ्चिद् दक्षिणामुखान् ।
पश्चिमाभिमुखानां चं⁹ बद्धानां वाजिनां सदा ॥ ५८ ॥
१ द. ख. तस्य । २ क. म्ययोगस्य । ३ द. ख. दिगात्मवह्निस्तु ; क. गर्दीप्तो वह्निस्तु वा ।
४ द. ख. निं । ५ द. ख. ॰तोवस्थां । ६ द. ख. बद्धामन । ७ द. आरोगाश्रा ; क. आरोग्याश्च ।
८ द. ख. ॰खं । ९ क. ॰प्यं । १० द. ख. तु ।
वा. २६