समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 265, कुल 726 में से
संदर्भ में पढ़ें२०० समराङ्गणसूत्रधारे
ब्राह्म्यां दिशि प्रकर्तव्यं¹ स्थानकं यवसस्य च ।
वायव्यां तु प्रकर्तव्यं² स्थानमौदूखलं दिशि ॥ ३५ ॥
निःश्रेणयः कुशाः कूपाः कार्याश्च फलकावृताः ।
कुद्दालोद्दालगुडकाः शुक्तयोगाः³ खुरैस्तथा⁴ ॥ ३६ ॥
कचग्रहण्यः शृङ्गं च तथा परशवोऽपि च ।
नार्याः( ? )⁵ प्रदीपांश्च भवन्त्यश्वागारोपयोगिनः ॥ ३७ ॥
सङ्ग्रहः सुखसञ्चारवस्तूनां नैर्ऋते भवेत् ।
अग्न्युपद्रवरक्षार्थं⁶ बन्धच्छेदोपयोगिनः ॥ ३८ ॥
पदार्थांन् सन्निधौ कुर्याज्ज्वलद्दीपादिकान् बुधः ।
भाण्डानि कुर्याच्च पृथग् जन्द्रा(लो)पनयनेच्छया ॥ ३९ ॥
हस्तवासीं शिलां दीपं दवीं फालमुपानहौ ।
पिटंकानि¹⁰ विचित्राणि वस्तीन् नानाविधानपि ॥ ४० ॥
एवंविधानि चान्यानि संनिदध्यात् प्रयत्नतः ।
पुरःस्तम्भाश्रितं¹¹ भाण्डं सन्नाहादेर्विधीयते ॥ ४१ ॥
प्राङ्मुखे तुरगं गेहे वारुण्यां स्थापयेद् दिशि ।
पूर्वामुखे पदे वापि मित्रस्य वरुणस्य च ॥ ४२ ॥
भवन्ति तेन बहवः पुष्टिं च प्राप्नुवन्ति ते ।
सा हि दिक् पूजनीया च स्तोतव्या¹³ च प्रकीर्तिता¹² ॥ ४३ ॥
होमशान्तिकदानेषु धर्म्या याश्च पराः क्रियाः ।
तासु प्रशस्यते पूर्वा शक्रेणाधिष्ठिता स्वयम् ॥ ४४ ॥
तस्यामुदेति दिनकृदनुलोमं ततः पुनः ।
अश्वानां पृष्ठतो याति स प्रतीचीमनुक्रमात् ॥ ४५ ॥
स्नानाधिवासने पूजा माङ्गल्यानि¹⁵ पराणि च ।
प्राङ्मुखानां तुरङ्गाणां कर्तव्यानि शुभार्थिभिः ॥ ४६ ॥
१ द. ख. विज्ञातव्य । २ द. ख. न कर्तं । ३ क. खं । ४ द. ख. ०सतो० । ५ क.
०द्याप्र० । ६ क. ०व० । ७ द. ख. ०क्षार्था रंध० । ८ द. ख. क. ०ज्ज्व० । ९ द. ख. ०ग्लेन्द्रा-
यन० । १० क. वि० । ११ द. ख. व्यास्तत्प्र० । १२ द. ख. क. ०ताः । १३ क. षु ।
१४ द. ख. ०नं० । १५ द. ख. ०न्य० ।