समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 264, कुल 726 में से
संदर्भ में पढ़ेंअश्वशाला नाम त्रयस्त्रिंशोऽध्यायः । १९९
स्थानं मूत्रस्य मध्ये तु हस्तमात्रं समन्ततः ।
आस्तीर्णं च समश्लक्ष्णनीरन्ध्रैः १ फलकैर्दृढैः ॥ २४ ॥
धातक्यर्जुनपुन्नागककुभादिविनिर्मितैः ।
अष्टाङ्गुलसमुच्छ्रायैरध्यर्धारत्निविस्तृतैः २ ॥ २५ ॥
अच्छिद्रैः ३ संहनैर्बद्धैरयसा पार्श्वयोर्द्वयोः ।
अजन्तुसङ्कुलैः काष्ठै रुचकाभि(?)र्भिषङ्मनैः ॥ २६ ॥
यवसस्य ४ भवेत् ५ स्थानं निर्यूहैः ६ स्वास्तृतं शुभैः ७ ।
किष्कुत्रयोच्छ्रितं तत् स्यादेकान्ते सुसमाहितम् ॥ २७ ॥
हस्तद्वयप्रमाणं च कुर्यात् खादनकोष्ठकम् ।
सूपलिप्तमदुर्गन्धि विस्तारोच्छ्राययोः समम् ॥ २८ ॥
स्थाने स्थाने त्रयः ८ कीलाः सुदृढाः कपिशीर्षकाः ।
पश्चाङ्गिनिग्रहार्थं तौ पुरतः ९ कल्पयेदुभौ ॥ २९ ॥
पश्चाद् बन्धार्थमेकं च सुगुप्तं परिकल्पयेत् ।
चतुर्हस्तायतं त्यक्त्वा शालाकोणचतुष्टयम् ॥ ३० ॥
स्थानेष्वेतेषु तुरगान् सर्वेष्वपि निवेशयेत् ।
तत्र कुर्याद् बलिं होमं स्वस्तिवाचनकं जपम् ॥ ३१ ॥
ग्रीष्मे कार्यं सुसंमृष्टं सिक्तं तत्र महीतलम् ।
वर्षास्वनम्बुपङ्कं च शिशिरे संवृतं शुभम् ॥ ३२ ॥
तिष्ठेयुस्तत्र तुरगा नानिसङ्कीर्णशङ्किनः ।
अस्पृशन्तो मिथः कार्याः सर्वबाधाविवर्जिताः ॥ ३३ ॥
स्थानं दक्षिणपूर्वस्यां दिशि वह्नेः प्रकल्पयेत् ।
निदध्यादुदकुम्भं च किंचिदैन्द्रीसमाश्रितम् ॥ ३४ ॥
१ द. ख. ॰रन्ध्रैः । २ द. ख. ॰विस्तरैः । ३ द. ख. सहितै॰ । ४ क. ॰जं॰ ।
५ द. ख. ॰र्नि॰ । ६ द. ख. यवस्य । ७ द. ख. भर्तु । ८ द. ख. ॰हे । ९ द. ख. ॰चिः ।
१० द. ख. ॰र्यात् वा॰; क. ॰र्याच्छा॰ । ११ द. ख. थ्रं॰ । १२ द. ख. युवतः ।