सामग्री पर जाएँ
सर्वकोश
समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

पृष्ठ 115, कुल 726 में से

संदर्भ में पढ़ें
पृष्ठ 115

५० समराङ्गणसूत्रधारे
मध्ये पुरस्य कर्तव्यं गृहमम्भोजजन्मनः ।
निवेशनं तथेन्द्रस्य तथैव हलिकृष्णयोः ॥ १३० ॥
मातृयक्षगणाधीशान् शिवकान् भूतसङ्घकान्१ ।
विनापि वेश्मभिः कुर्यात् पुरे चत्वरमार्गगान् ॥ १३१ ॥
राज्ञा वर्णाश्रमकलापण्यशिल्पोपजीविनः ।
स्वदिक्पदस्थाः कर्तव्यास्ते देवाश्चेच्छता श्रियम् ॥ १३२ ॥
प्रासादे सति भक्तीच्छाशक्तियुक्तो यदापरम् ।
प्रासादं कारयेत् पूर्वं न तदा पीडयेत् सुधीः ॥ १३३ ॥
प्रतिवेश्म प्रतिग्रामं प्रतिदेवकुलं तथा ।
कुर्यात् प्रतिपुरं चापि न प्राज्ञानगुणाधिकम् ॥ १३४ ॥
पूर्वप्रासादतो रुद्रसोमयोर्ब्रह्मणोऽथवा ।
प्रासादे विहितेऽन्यस्मिन् भवेत् पीडाग्रजन्मनाम् ॥ १३५ ॥
कृते धामन्यधिकेऽन्यस्मिन् वहेर्वाचस्पतेरुत ।
पुरोधसां भयं विद्याद् ध्रुवं ज्योतिर्विदां तथा ॥ १३६ ॥
धनाधिपामराधीशयमानां वरुणस्य वा ।
अधिके विहिते धाम्नि भयं विद्यान्महीपतेः ॥ १३७ ॥
स्कन्दधाम्नोऽधिकेऽन्यस्मिन् विहिते तस्य वेश्मनि ।
सेनापतेर्बलानां च पीडा सञ्जायते ध्रुवम् ॥ १३८ ॥
प्रजापतेरभ्यधिकं हरेर्वान्यत् कृतं गृहम् ।
कर्तुः कारयितुश्च स्याद् बन्धाय२ च विनष्टये ॥ १३९ ॥
गणेशयक्षफणिनामधिकोऽन्यः कृतो यदि ।
प्रासादः स्यात् तदा नित्यं सेनाङ्गानां महद्भयम् ॥ १४० ॥
स्त्रीनाम्न्यो देवतास्तासां पीड्यन्ते यदि वेश्मभिः ।
मुख्यानां पुरनारीणां तदा कुर्वन्त्युपद्रवम् ॥ १४१ ॥
पूर्वामरेषु सर्वेषु पीडितेष्वमरालयैः ।
अन्यैस्तल्लिङ्गिनां पीडा चैत्यैर्वा चैत्यपीडितैः ॥ १४२ ॥
१ क. ढ. सिंहकान् । २ द. ख. बन्धायाथ ।