समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
पृष्ठ 116, कुल 726 में से
संदर्भ में पढ़ेंवास्तुत्रयविभागो नामैकादशोऽध्यायः । ५१
हीनाधिकप्रमाणेषु दुर्निविष्टेषु धामसु ।
कर्तुः कारयितुः पीडा स्यान्न पूजा तथास्य च ॥ १४३ ॥
नैवातिसंभृतं कुर्यात् स्वल्पमल्पामरालयम् ।
१पुरं चानाश्रितं कुर्याद् वेधभागाश्रितं न च ॥ १४४ ॥
ज्येष्ठमध्यकनिष्ठानि नवषट्त्रिपदान्तरे ।
सुरवेश्मानि कुर्वीत दोषायापरथा पुनः ॥ १४५ ॥
कठिनोऽयं विधिः ३स्वैः स्वैस्त्रिदशानां निवेशने ।
बहिर्निवेशनात् स्वेच्छं विदध्यादमरालयम् ॥ १४६ ॥
नगरेषु समग्रेषु ग्रामेषु निखिलेषु च ।
खेटकेषु च सर्वेषु सामान्योऽयं विधिः स्मृतः ॥ १४७॥
इत्युक्त एष नगरोपगतः सुराणां
स्वस्व४भागविहितः पदसन्निवेशः ।
ब्रूमो विभागमधुना गृहदेवतानां
सम्यक् शुभाशुभफल५विभागयुक्तम् ॥ १४८ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारारूपनाम्नि वास्तुशास्त्रे
पुरनिवेशो दशमोऽध्यायः ॥
अथ वास्तुत्रयविभागो नामैकादशोऽध्यायः ।
चतुरश्रीकृते क्षेत्रे विभक्ते नवधा ततः ।
मध्ये महाद्युतिर्ब्रह्मा विधेयो नवभिः पदैः ॥ १ ॥
तस्मादनन्तरं प्राच्यां षट्पदः कीर्तितोऽर्यमा ।
आग्नेयकर्णे सवितृसावित्रौ पदिकावुभौ ॥ २ ॥
ब्रह्मणोऽनन्तरं याम्ये विवस्वान् षट्पदाश्रितः ।
नैर्ऋते पदिकौ कर्णे जयेन्द्रौ कथितावुभौ ॥ ३ ॥
१ द. संभृतं । २ द. स्वं पुरं चानाश्रि° । ३ द. स्वे स्वे । ४ द. °विभाग° । ५ द. प्रविपाकः।