साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 395, कुल 506 में से
संदर्भ में पढ़ें१८६ साहित्यदर्पणे
अथ रौद्रः—
रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः ।
आलम्बनमरिस्तत्र तच्चेष्टोद्दीपनं मतम् ॥ २२७ ॥
मुष्टिप्रहारपातनविकृतच्छेदावदारणैश्चैव ।
संग्रामसंभ्रमाद्यैरस्योद्दीप्तिर्भवेत्प्रौढा ॥ २२८ ॥
भ्रूविभङ्गोष्ठनिर्देशबाहुस्फोटनतर्जनाः ।
आत्मावदानकथनमायुधोत्क्षेप णानि च ॥ २२९ ॥
उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः ।
अनुभावास्तथाक्षेपक्रूरसंदर्शनादयः ॥ २३० ॥
मोहामर्षादयस्तत्र भावाः स्युर्व्यभिचारिणः ।
यथा—
'कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं
मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः ।
नरकरिपुणा सार्धं तेषां सभीमकिरीटिना-
मयमह मसृङ्मेदोमांसैः करोमि दिशां बलिम् ॥'
यस्य स ॥ रौद्ररसमाह—रौद्र इति । तच्चेष्टा रिपुचेष्टा । ता विशिष्याह-
मुष्टीति । विकृतं विरुद्धाचरणम् । छेदः खङ्गादिना । अवदारणं शूलादिना
अस्य रौद्रस्य । 'अवदानं कर्मवृत्तम्' इत्यमरः ॥ कृतमिति । द्रोणशिरश्छेदेन
क्रुद्धस्याश्वत्थाम्नोऽर्जुनं प्रति सूक्तयोक्तिरियम् । इदं मत्पितुश्शिरश्छेदरूपं गुरुपातकं
तत्कारणं कर्म यैरुद्धृतायुधैर्मर्यादाशून्यैरेत एव मनुजपशुभिरद्भिः कृतमनुमतं
दृष्टं वा, नरकरिपुणा कृष्णेन सार्धं भीमकिरीटिसहितानां तेषां मेदोमांसैरसृजा
दिगवस्थितभूतानां बलिं करोमीत्यर्थः । अयमेतत्क्षणवर्तेव । अत्राश्वत्था-
... । तदकार्यमुद्दीपनम् । तादृशगर्जनमनुभावः ॥ त...
- रौद्र इति । क्रोधस्थायिभावको द्विषदालम्बनकस्तदपकाराद्यु...
...गो गर्वादिव्यभिचारिणो रौद्र इति ॥ - कृतमिति । दृप्त रौद्ररसस्य जनकना वृत्तिक्षान्ति, अत 'नवान्त्यंनिवर्धिवनस...
अंगवैन्दरे मदीयायुभ्रातृकं गच्छिन्नमाद्यस्य वृणोति । अद्य पततु निदद्य दानववृत्त...
ण्डस्योदृष्टशिरश्छङ्गे मम परशवो भैरवः ॥' इत्युदाहार्यम् । तथा च गच्छन्त...
पशुगमनेोक्ति । अत्र महोद्धता वृत्ती रौद्रस्य परमोपनिता परिपुष्णाति ॥
१. 'आलम्बनं विरोधी स्यात्' ग २ 'हस्तनिर्देशवदनरागवाक्पारुष्यविस्फुरद् । मोहामर्षादयस्तत्र
देवादिव्यभिचारिणः ॥' इति ग