साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 394, कुल 506 में से
संदर्भ में पढ़ेंतृतीयः परिच्छेदः। १८५
अनुभावा दैवनिन्दाभूपातक्रन्दितादयः ।
वैवर्ण्योच्छ्वासनिःश्वासस्तम्भप्रलपनानि च ॥ २२४ ॥
निर्वेदमौहापस्मारव्याधिग्लानिस्मृतिभ्रमाः ।
विषादजडतोन्मादचिन्ताद्या व्यभिचारिणः ॥ २२५ ॥
शोच्यं विनष्टबन्धुप्रभृति ।
यथा मम राघवविलासे—
‘विपिने क्व जटानिबन्धनं तव चेदं क्व मनोहरं वपुः ।
अनयोर्घटनाविधेः स्फुटं ननु खङ्गेन शिरीषकर्तनम् ॥’
अत्र हि रामवनवासजनितशोकार्तस्य दशरथस्य दैवनिन्दा । एवं
बन्धुवियोगविभवनाशादावप्युदाहार्यम् । परिपोषस्तु महाभारते स्त्री-
पर्वणि द्रष्टव्य ।
अस्य करुणविप्रलम्भाद्भेदमाह—
शोकस्थायितया भिन्नो विप्रलम्भादयं रसः ।
विप्रलम्भे रतिः स्थायी पुनः संभोगहेतुकः ॥ २२६ ॥
इष्टनाश पुत्रोहेर्विच्छेदो मरणं च वित्तादेर्नाशश्च ॥ अनयोर्जटाधारणश्रीरामश-
रीरयो घटना योजना । खङ्गेन शिरीषकर्तनमिवेत्यर्थः । अत्र प्रकरणाद्दशरथो
नायको लभ्यत इति । टिप्पणी—अत्रेति । अनुचिताचरणमेव दैवस्य निन्दा
सैवतुस्याद । बन्धुवियोगो बन्धुमरणम् । तत्र यथा—‘गृहिणी सचिवः सखी
मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वा वद किं
न मे हतम् ॥’ अत्रेन्दुमतीमरणजनितशोकार्तस्याजस्य मृत्युनिन्दा । वित्तनाशो
यथा—‘प्रातर्भवामि वसुधाधिपचक्रवर्ती सोऽहं व्रजामि विपिने जटिलस्तपस्वी ।
यच्चिन्तितं तदिह दूरतरं प्रयाति यच्चेतसा न गणितं तदिहाभ्युपैति ॥’ अत्र नष्ट-
राज्यस्य रामस्य परिदेवनम् ॥ स्थायीभाव इति शेषः । पुनः संभोगो हेर्तुर्यवगे
- यथेति । यथा वा मम—‘पाशबद्धममी पतन्ति मरुत दृष्ट्वा पुरोग्निन्दतो-
ऽप्यन्तर्नौतनिवासह्रदं रुदति हा गर्ते गुरुः संहतिः । अप्सस्ते पुत्तलन्नासि विगता
वैदण्डनात्मजने शिथिलस्य गोऽपि चीवरहा प्रत्युत्तरं दीयताम् ।’ इति ।
१. ‘समुद्रेऽभूद्...’ ... ‘तस्यात्मजः । विदूरादभिसङ्केतान् सन्निधौ यत्नवान् भवेत्’ इति
पाठान्तरं बहुपुस्तके = ‘संभोग’- इत्यग्रे ‘-हेतुकः’ इत्यस्य स्थाने पाठान्तरम् बहुपुस्तके ‘मद-
नादभिसन्केतेऽपि हे बहु पूर्वं सङ्केतस्योक्तम् । तद्दिन निरूपितेऽनेक यद्य दधीन विप्रलम्भानुभाव्यम्’
इत्येव दृश्यते २. टिप्पणी प