साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 284, कुल 506 में से
संदर्भ में पढ़ेंभूमिका । ६१
विश्वनाथस्य नाम सान्धिविग्रहिक-महापात्र-कविराजेत्युपाधिभिर्घटितं दृश्यते ।
तत्र सान्धिविग्रहिक इति राज्याधिकारविशेष । तदानीं विद्याप्रणयिनां कलिङ्ग-
पार्थिवानां राज्याधिकारे विश्वनाथस्य पूर्वपुरुषास्तदनुबन्धिनः श्रीधर-राघ-
वानन्द-कृष्णानन्दप्रभृतयश्चासन् । अत एतन्नामापि सान्धिविग्रहिक-महापात्र-
विशेषणाभ्यां भूषितम् । अत्र श्रीधर-राघवानन्दौ काव्यप्रकाशस्य टीका-
कृतावपि । कृष्णानन्दस्तु वैदर्भीरीतिप्रधानस्य सहृदयानन्दाख्यस्य नलचरित-
महाकाव्यस्य रचयिता । राघवानन्दनाम दर्पणस्य प्रथमपरिच्छेदे; सहृदयानन्दस्य
'सूचीमुखेन-'इति पद्यं सप्तमपरिच्छेदे वर्तते । सान्धिविग्रहिक इति संधिविग्रहा-
द्विष्टन् । 'तत्र नियुक्त-' (पा० सू० ४।४।६९) इति ठक् । एषा उपाधी
राजतरङ्गिण्यादौ सुप्रसिद्धः । महापात्रो ब्राह्मणविशेष इति केचित्, सङ्केत्यपरे ।
ननु महामात्र इति सम्भावनीयम् । कविराज इति महाकविसमानार्थकम् । नतु
सद्य (सद्योध्या) प्रान्तीयप्रधानहिंदीभाषायां 'भाट' इति प्रसिद्धब्राह्मणजातेर्-
व्यञ्जकम् । श्रीनारायणचरणारविन्देत्यादि तु ह्यास्तिकादिप्रदर्शनाथम् ।
काव्यप्रकाशदर्पणे तु '...सङ्गीतविद्याविद्याधर कलाविदामलतीमधुकर-विविध-
विद्यार्णवकर्णधार...'इति विश्वनाथस्य त्रीणि विशेषणान्यधिकानि । वस्तुतोऽयं
महाकुलप्रसूतो बहुज्ञः सहृदयश्चेति । एतत्प्रणीतग्रन्थास्त्वेते ज्ञायन्ते—(१)
राघवविलास महाकाव्यम् (२) कुवलयाश्वचरितप्राकृतमहाकाव्यम् (३) चन्द्रकला
नाटिका (४) प्रभावती नाटिका (५) षोडशभाषामयी प्रशस्तिरत्नावली (एतेषां
निर्माणोत्तरं) (६) साहित्यदर्पण (७) नरसिंहविजयम् (८) काव्यप्रकाशदर्पण. ।
एतत्पितुश्चन्द्रशेखरस्य पुष्पमाला नाटिका, भाषार्णव इति ग्रन्थद्वयी दर्पणेतो
ज्ञायते । तत्र—
'भाषामध्यमपात्राणां नाटकोक्तौ विशेषतः ।
महाराष्ट्री सौरसेनीत्युक्ता भाषा द्विधा बुधैः ॥
हीनेष्वपि विभाषा स्यात्सा च सप्तविधा स्मृता ।
प्राच्यावन्ती मागधी च शाकारी च तथापरा ॥
चण्डाली शाबरी चापि तथाऽऽभीरीति भेदतः ।'
इत्युक्तस्य अनन्तदासस्य रीत्या भाषादर्पणनामकग्रन्थे । प्रशस्ति-
रत्नावल्याः षोडशभाषाप्रकाराणाम् उक्तत्वाद् इति मूलग्रन्थेऽभिप्रायः ।
विश्वनाथपूर्वपुरुषाणां कविराजसम्बन्धः स्पष्ट एव । यिच । "कुरङ्गचिह्नं"
इति पद्येनोर्वशीवेधे इति ग्रन्थद्वयरचयितुरनन्तदासस्य काव्यदर्पणे 'वैदर्भीयं
रुचि'युक्तं इति पाठः । अत्र विन्दु-पदं चन्द्रशेखरस्यात्मजत्वेनैवापवरितम्,
स्वसन्तानपरतया 'कुवलयाश्वदलं' इत्यादि इति नैषधम् उपश्लोकेनिसंस्मृत्य
पद्यं स्मरतः । आत्मेव वैदग्ध्यमधिकन्तु विश्वनाथस्येत्याशयेनकाव्यदर्पणे कृतोऽयं
द्र० सं० ६