सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 285, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 285

७० साहित्यदर्पणे
'धन्वन्तरिः क्षपणकोऽमरसिंहशङ्कु-
वेतालभट्ट-घटखर्पर-कालिदासाः ।
ख्यातो वराहमिहिरो नृपतेः सभायां
रत्नानि वै वररुचिर्नव विक्रमस्य ॥'
इत्येवमादिश्लोकाः परीक्षापेक्षा । अत्रेयं भ्रान्तिदिक्—वराहमिहिरो हि
'सप्ताश्विवेदसङ्ख्य शककाल-(४२७)' इति स्वसमयं निर्दिदेश । तेन
गमयो व्यभिचरितो द्रष्टव्य । कालकलनानादरे तु—
'भासो रामिल-सोमिलौ वररुचिः श्रीसाहसाङ्कः कवि-
र्माघो भारवि-कालिदास-तरलाः स्कन्धः सुबन्धुश्च यः।
दण्डी वाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः
सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेऽप्यमी ॥'
इत्येवमादिश्लोका अदुष्टा इत्यलम् ।
दण्डी ।
अयमाचार्यदण्डी कवि कुत्र कदा बभूवेति विज्ञानं दु शकम् । दण्डीति नाम्ना
चतुर्थ्याश्रमिनमेन मन्यन्ते कतिपये । कतिपये पुनः काव्यादर्श वैदर्भीरीतेर्भृशं
प्राशस्त्याद् विदर्भजनपदस्थं दाक्षिणात्य कीर्तयन्ते । अथ—
'त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः ।
त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥'
इति सूक्तिमुक्तावल्यां धृत-राजशेखरमहाकविलोकाद्दण्डिनो ग्रन्थत्रयकर्तृत्वं
सुव्यक्तम् । तत्र काव्यादर्श-दशकुमारचरिते तावदतिरोहिते । तृतीयो ग्रन्थः
क इति गवेषणायाम्—‘छन्दोविचित्या सकलस्तत्प्रपञ्चो निरूपित' इति काव्यादर्शवचनात्,
‘छन्दोविचितिरिव मालिनीसनाथा' इति सौबन्धवीयवासवदत्ताश्लेषेण 'छन्दो-
विचितिग्रन्थविशेष' इति त्रिपाठीशिवरामप्रणीतया टीकया च छन्दोविचितिरेव
द्वैवेति । केचित्पुनश्छन्दोविचितिशब्दं यौगिकं मन्यन्ते । तथाच विचितिः प्रसार इति
मन्यते । अन्ये तु तृतीयं ग्रन्थं कलापरिच्छेदं कल्पयन्ते । मल्लिकामारुतनिर्माणं
तु दण्डिनो न तु दण्ड्येति । दण्डिनः समयस्तु प्रवरसेनादवस्ताद् रुद्रटाच्च
सूच्यते ॥
धनिकः ।
... दशरूपावलोकस्यापि रचयिता, दशरूपस्य तु विष्णुतनुजन्मना धनञ्ज-
येन कृतत्वादिति तदुभयकर्तृकत्वाद् ग्रन्थयोः । अतएव —
...
... । ... राजदेवो ...
... । हम्मीर... मु १२९७ ...
... ।