सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 270, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 270

यदि चात्र सांप्रतिकपर्यालोचनदृष्ट्या कालसंकोचचिकीर्षया मीमांसकानां
सहस्रसंवत्सरशब्दस्य सहस्रदिनपरताधिकरणन्यायोऽवतार्येत (जैमिनिदृ. ६ अ-
७ पा. १३ अधि.). तदापि विसंवादाधिरूढवस्थ एवाभिलक्ष्यते । यतस्तत्र
साधारण्याेनाधिकारिचिन्ताया ब्राह्मणानुगृहीतः कालसंकोच आश्रीयते; इह पुनर्-
विशेषेण कालकलनाया गमकाननुगृहीतः कालसंकोचो विकासो वा कथमाश्री-
येत । या च शतायुःश्रुतिः, सापि युगपरतया मन्वादिभिः स्मर्यते ( म. स्मृ. १
अ. ८१-८४ श्लो. ), इत्य सेतिहासपुराणाभ्यामेव किमपराद्धम् । यत्तदुक्तजातं
गमननुपलम्भेऽप्यन्यथा नीयते । एतेन हि भगवन्तं रामभद्रं तत्पितरं तत्र-
भवन्तं दशरथं चामिलक्षीकृत्य प्रवृत्तम्—
'दशवर्षसहस्राणि दशवर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥'
रा. वा. का. १. स. ९७ श्लो.
'षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक ।'
( रा. वा. का. २० स. १० श्लो. )
इत्यादिवाक्यं नासगतं मन्तव्यम् । बलादन्यथानयने तु सौरमानेन १०१००/३६० =
२८ २/३ इति ६००००/३६० = १६६ २/३ इति तयोः कालावागच्छतः । अत्र द्वितीयस्य-
श्रद्धेयत्वेऽपि प्रथमः सर्वथाऽनुपपन्न एव । तथा तत्रैव रामायणे 'ऊनषोडश-
वर्षो मे रामो राजीवलोचनः' इत्येवमादिरूपकालो दिनत्वेन परिणममानोऽति-
तराममुपपन्नो द्रष्टव्यः । नैवमत्रैवानुपपत्त्या पराक्रम्यते । यानि पुनर्ज्योतिषे होरा-
स्कन्धे नानाप्रकाराणि योगोत्थितानि पुरुषायूंषि पठितानि तत्रापि विसंवाद-
गलप्रहान् मुच्यामहे । जैमिनीयन्यायोऽपि कालत्रयेणावतार्यमाणः कालकलनासु
प्रमाणपदवी नाधिरोहतीत्यपि दर्शितमेव । देशकालविषयविप्रकृष्टनामेकस्वभावा-
पोऽपि दूरदर्शिभिरेकहेल्याऽवहेलयितुमशक्यः । प्रक्षेपॊऽपि सजात्यान् विशिष्य
मूलात्स्कन्धीत्यादि रूपेणैव परीक्षणीयम् । तस्माद् वेदेष्विव तदुपोपबृंहितेष्वपि यद्
यथा स्मर्यते व्यवस्थाप्यते वा तत् तथैव नीयमानं पूर्वोपज्ञं भवितुमर्हतीति
स्थितम् ॥
इदमपि पुरातत्त्वं प्रकृत पर्यालोच्यम्—
'श्रुतौ शतायुः पुरुषः प्रदिष्टो
बहुत्वयोगी शतशब्दशक्यः ।
रामादिकानामधिकायुरासौ
युक्तं प्रतीमः फलितोऽमितायुः ॥' इति ।
बहु चैवात्र शब्दानुसारेण प्रतिपत्तव्यम् । सूत्रं च जैमिनीयन्यायानुसन्धाने
पुनरिदमपि पर्यालोच्यमेव—
'स वार्षिको वासन्तिको भवति ( ब्राह्मणम् ) —