साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 271, कुल 506 में से
संदर्भ में पढ़ें२२ साहित्यदर्पणे
तत्रापरं ( न्तिमं ) ब्राह्मणगौरवेण ( दर्शनेन )
स स्वीचकारेति विरोधभङ्गः ॥' इति ।
अथवा भतृत्तीयापरभोगस्य प्रथमान्तत्वे । महर्षिणाग्राहि ( ऽमानि ) विरोध-
शान्त्यै' इत्येवं चरमपाद पठनीयः ॥
प्रास्तावयं च प्राक् ( भूमि. १८ पृ. ) साहित्यस्य प्रवन्धा वन्धकाश्च क इति ।
तत्रावशिष्यते पौराणिकी कोटि । यत्र सूक्ष्मेशिकया निरीक्षणायामनेके वैज्ञा-
निका विषया पुरस्क्रियन्ते । इदानीं तु प्रस्तुतमुपक्षिप्यते यत्पुराणेष्वन्यतम-
माग्नेयमिति । इह विषयान्तरवत् साहित्यविषयोऽपि भामहादिग्रन्थेभ्यस्तत्पूर्व्वे-
भ्यो वा संक्रामित , आहोस्वित् वेदार्थोपबृंहकेभ्य आग्नेयादिभ्य एव भामहादि-
ग्रन्था व्यधायिपत । तत्राद्यकोटिर्विशीर्यते वृहत्कथारघुवंशादिपर्यालोचनेन तत्क-
र्तृकालेऽपि कविकर्मपद्धतेरवश्यंभावाद्, यत्प्रयातान्येतानि गुणाढ्यकालिदासा-
दिमूक्तान्यस्माकमवलम्बनानीति । आलंकारिकेषु भामहवर्जं नान्य कश्चन चिरंत-
नत्वेन संप्रति सभावनामारूढ इति बहव । भामहग्रन्थस्तदुपज्ञमित्यपि न सिद्ध्यति ।
यस्मात्तन्मादेव—
'रूपकादिरलंकारस्तस्यान्यैर्बहुधोदितः ।
न कान्तमपि निर्भूषं विभाति वनिताननम् ॥ १३ ॥
रूपकादिमलंकारं बाह्यमाचक्षते परे ।
सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम् ॥ १४ ॥
तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी ।
शब्दाभिधेयालंकारभेदादिष्टं द्वयं तु नः ॥ १५ ॥'
( १ परिच्छे )
इत्येवेन, तथा—
'इति निगदितास्तास्ता वाचामलंकृतयो मया
बहुविधकृतीर्दृष्ट्वान्येषां स्वयं परितर्क्य च ।
प्रथितवचसः सन्तोऽभिज्ञाः प्रमाणमिहापरे
गुरुतगधियामस्ताराध्यं मनोऽकृतबुद्धिभिः ॥ १६ ॥
( १५ परिच्छे )
इत्येवमादिना च तदीयेन सूक्तेन प्राचां काव्यानुशासनाना ज्ञापनम् । नाट्य-
ग्रन्थे हि—
'उपमा दीपकं चैव रूपकं यमकं तथा ।
काव्यस्यैते ह्यलंकाराश्चत्वारः परिकीर्त्तिताः ॥'
( १६ अ ४१ श्लो. )
इत्येवंरूपान्दोषान् प्रस्फुटित्वा यथा—
गूढार्थमर्थान्तरमर्थहीनं
भिन्नार्थमेकार्थमभित्नार्थम् ।
-------------------- प्रकाशस्य पदपूर्वोक्तैरेत्युद्भूतम् ।'