सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 22, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 22

चार-’ ( १।२।४५-५० ) इत्यादिना पञ्चाप्युपदिष्टाः । एतेन पूर्वं त्रय एव
हेत्वाभासा आसंस्ततः, पश्चात् पञ्चत्वमुपनीता इति व्यक्तम् । अत्र ‘विरुद्धासिद्धसं-
दिग्धमलिङ्गं काश्यपोऽब्रवीत्’ इति वैशेषिक-पदार्थधर्मसंग्रहकारः प्रशस्तपाद-
चार्योऽपि संवादी । एवं वृत्तौ जयनारायण-तर्कपञ्चाननोऽपि । तदेतन्महामहो-
पाध्याय-चन्द्रकान्ततर्काचार्य्य स्वभाष्यभूमिकायां स्पष्टमुक्तवान् । किञ्च, न्याय-
सूत्रापेक्षया वैशेषिकसूत्राणां प्रणयनशैलीसारल्यमपि तत्प्राचीनतामवगमयतीति
प्रत्यक्षं परीक्षकाणाम् । यद्यपि न्यायकोशभूमिकायां महामहोपाध्यायभीमा-
चार्येण विपरीतमुच्यते तन्न हृदयारोहीति द्रष्टव्यम् ।
प्रमाणैः प्रमेयपरीक्षणं न्यायः, नीयते प्रमेयसिद्धिरनेनेति वा । एषोऽक्षपादा-
परनामा महामुनिना गोतमेन न्यरूपि । दृष्टान्तद्वारपुरस्कारेण पदार्थतत्त्वज्ञान-
न्निःश्रेयसात्यन्तिकी परमात्मचिन्ता । अत्र पञ्च अध्यायाः । प्रत्यध्यायमाह्निकद्व-
यम् । सर्वसूत्राणि ५३९ । भगवतो गौतमस्य समये आयुर्वेद इव मन्त्रकाण्डोऽपि
दृष्टप्रत्यय आसीत्, तत एव दृष्टान्तविधया द्वयोरप्युपादानं वेदप्रामाण्यादरे कृ-
तम्—‘मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात् २।१।६८’ इति। सारसा-
न्त्रिकोपगता मन्त्रा वदन्ते। आगमश्च-‘आगतं शिववक्त्रेभ्यो गतं च गिरिजामुखे ।
मतं श्रीवासुदेवस्य तस्मादागममुच्यते ॥’ इति शब्दार्थचिन्तामणौ निरस्तम् ।
तत्रापि-तत्पुरुषा घोर-सद्योजात-वामदेवे-शानेशाने पूर्वदक्षिणदिनेऽन्तर्बहिर्-
पाणि पद्य । तत्पुरुषादिसंप्रतिपादका मन्त्रास्तु तैत्तिरीये आरण्यके दशमप्रपा-
ठके श्रूयन्ते ॥
सांख्यं योगश्चेति समानतन्त्रे । तत्र तत्त्वानां संख्यानं यत्र स तत्त्वज्ञानं
कपिलापरनामा नारायणांशेन देवहूतिगर्भेण महर्षिणा कपिलेनोपदिष्टम् ।
तद्यथोक्तम्—‘पञ्चमे कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये सांख्यं
तत्त्वग्रामविनिर्णयम् ॥’ इति भागवते ( १ । ३ । ३ ह. १० श्लो. ) । तच्चेह
सांख्यं निष्णातेरित्यादितदवशिष्टभूता सांख्यप्रवचनी तु देवहूत्यादनन्तरे
महर्षिणा कपिलेनोपदिष्टा । तद्यथोक्तम्—‘सप्तम्यामष्टमे चैव विविधे हरिर-
नघम् । दत्त्वात्म सम्पदं तत्र धौम्य निभृतः । यदि सांख्यं द्वयः
प्रादुर्वभूव ददा । इति स कपिलो नाम सांख्यप्रवर्तकः । इति भारते
विनिर्णयानुसारेण ज्ञायते । तदस्य प्रवृत्तेः शत प्रकृते र्न प्रकाशास्ते
बहुदिवसावतीर्णेन कालान्तरेण प्रकीर्णः । इदानीं सांख्यप्रवचनोक्तमेव
एतेन तत्त्वमाहात्म्यं सांख्यशास्त्रमिति ज्ञेयं न तु वार्ष्णगण्योपदिष्टम् । तत्र षड-
ध्यायीग्रन्थः, द्वितीये तृतीयेऽध्याये षष्टिस्तन्त्राख्या विषयाः कथिताः— “तं
षष्टिविषयं शास्त्रम्” इति दिङ्नागेन स्मरणात् । तत्र पञ्चविंशतितत्त्वप्रतीति-
घाटतः ‘ईश्वरनिषेधश्चैतत् ५ । ८० ’ इति सांख्यप्रवचनोक्तरीत्या पञ्चविं-
शतितत्त्वे तु ईश्वरः सुतराम् ।
१. न्यायसू. २।१।६८ । २. तैत्ति० आ० १०।२७।१ ।
१० । ४० । ४