साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 21, कुल 506 में से
संदर्भ में पढ़ें३६ साहित्यदर्पणे
र्थात् ३१००—४८७=२६१३ कलिगतम् । एष च—'यदुदुम्बरवर्णानां
मण्डलं महत् । पीतं न गमयेत्स्वर्गं तत्किं क्रतुगतं नयेत् ॥' इत्येवमुक्तवान्
शायाम्—'प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणम्' इत्येवं भट्ट-
भाष्यकारेण प्रत्युच्यते । यद्युक्तो बुद्धनिर्वाणकालः सर्ववादिसंमतः स्यात्तदापि ।
तीर्थंकर-महावीरसत्ताकालो व्यक्त एव, यतो वीरनिर्वाणसंवत्—५२७ सं०
ऊर्ध्वम् अर्थात् कलिगतम् २५७३। 'चन्द्रगुप्तसभा' इति प्रत्युदाहरणं तु स्वा०
महाभाष्ये काशिकायामपि न दृश्यते, केवलं सिद्धान्तकौमुद्याम् । चन्द्रगुप्तसमवि-
तया संभाव्यमानः पुष्यमित्रो वर्तमाने लड्सूत्रभाष्ये—'इह पुष्यमित्रं याजयामः
( ३।२।१२३ ) इत्येवं स्मृतोऽपि कुशकाशावलम्बनायितः । नहि देवदत्तेन्द्रकर्ण-
न्द्रपालितप्रायैरुदाहरणै ( ८।२।८३ ) केचन नियता व्यक्तिविशेषा भाष्यकाराभि-
मता भवितुमर्हा इति दिक् ।
अथ किंचिद्दर्शनान्तरमुपक्षिप्य भूयः प्रकृतप्रघट्टकफलं दर्शयिष्यते । दर्शनेष्वनु-
योगितया प्रतियोगितया वा परस्परस्य परस्परं प्रवेशो लक्ष्यते । सोऽयं शब्दतो-
ऽर्थत इति यथोत्तर भूयान् प्रेक्षाविषयः । तद्बीजं तु—'कालः स्वभावो नियतिर्य-
दृच्छाभूतानि योनि —' पृ. ८ ) इत्येवं जातीया भगवती श्रुतिरेव । नह्येषा
श्रुतिरुपालभ्या, तदनुवर्तिप्रमातृणां प्रवृत्तिर्वा, यदेष प्रमेयस्य प्राकृतिको दोषः
स्वभावो वा यथायं विचारं सहते, तयागत्या तैर्थिकैर्नीयत इति । अत्रेदं स्थूलतः
पर्यालोचनम्—
वैशेषिकं न्यायश्चेति द्वये दर्शने समानतन्त्रे तत्र उलूकापरनाम्ना महर्षिणा
कणादेन विशेषं पञ्चमं पदार्थभेदमधिकृत्य कृतो ग्रन्थो वैशेषिकम् । विशेषश्च
साधर्म्येतरेभ्यो व्यावर्तनाय प्रभवतीति वैशेषिकस्तत्प्रमाता । तथाचोक्तमौलूक्य-
दर्शने माधवाचार्यैः—'द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न
स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः ॥' इह भूतात्मपुरस्कारेण पदार्थानां साधर्म्य-
वैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसपर्यन्तिनी परमात्मचिन्ता । अत्र दश अध्यायाः ।
प्रत्यध्यायं द्वे आह्निके । सर्वसूत्राणि ३८०। एवं न्यायदर्शनं गोतमेन प्रणीतं षोडश पदार्था-