सामग्री पर जाएँ
सर्वकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 17, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 17

२२ साहित्यदर्पणे
तत्रापरं ( न्तिमं ) ब्राह्मणगौरवेण ( दर्शनेन )
स स्वीचकारेति विरोधभङ्गः ॥' इति ।
अथवा भवृत्तीयापरभोगस्य प्रथमान्तत्वे । महर्षिणाग्राहि ( ऽमानि ) विरोध-
शान्त्यै' इत्येवं चरमपाद पठनीयः ॥
प्रास्तावयं च प्राक् ( भूमि. १८ पृ. ) साहित्यस्य प्रबन्धा बन्धकाश्च क इति ।
तत्रावशिष्यते पौराणिकी कोटि । यत्र सूक्ष्मेक्षिकया निरीक्षणायामनेके वैज्ञा-
निका विषया पुरस्कृत्यन्ते । इदानी तु प्रस्तुतमुपक्षिप्यते यत्पुराणेष्वन्यतम-
माग्नेयमिति । इह विषयान्तरवत् साहित्यविषयोऽपि भामहादिग्रन्थेभ्यस्तत्पूर्व-
भ्यो वा संक्रामित , आहोस्वित् वेदार्थोपबृंहकेभ्य आग्नेयादिभ्य एव भामहादि-
ग्रन्था व्यधायिषत । तत्राद्यकोटिर्विशीर्यते वृहत्कथारघुवंशादिपर्यालोचनेन तत्क-
तृकालेऽपि कविकर्मपद्धतेरवश्यंभावाद्, यत्प्रयातान्येतानि गुणाढ्यकालिदासा-
दिमूर्द्धान्यस्माकमवलम्बनानीति । आलंकारिकेषु भामहवर्जं नान्य कश्चन चिरत-
नत्वेन संप्रति सभावनारूढ इति बहव । भामहग्रन्थस्तदुपज्ञमित्यपि न सिद्ध्यति ।
यस्मात्तन्मादेव—
'रूपकादिरलंकारस्तथान्यैर्बहुधोदितः ।
न कान्तमपि निर्भूषं विभाति वनिताननम् ॥ १३ ॥
रूपकादिमलंकारं बाह्यमाचक्षते परे ।
सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलंकृतिम् ॥ १४ ॥
तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी ।
शब्दाभिधेयालंकारभेद्मिष्टं द्वयं तु नः ॥ १५ ॥'
( १ परिच्छे )
इत्येतेन, तथा—
'इति निगदितास्तास्ता वाचामलंकृतयो मया
बहुविधकृतीर्दृष्ट्वान्येषां स्वयं परितर्क्य च ।
प्रथितवचसः सन्तोऽभिज्ञाः प्रमाणमिहापरे
गहनधियामस्ताराथं मनोऽकृतबुद्धिभिः ॥ १६ ॥
( १५ परिच्छे )
इत्येवमादिना च वशीयेन मूकेन प्राचां काव्यानुशासनाना ज्ञापनम् । नाट्य-
शास्त्रे हि—
'उपमा दीपकं चैव रूपकं यमकं तथा ।
काव्यस्यैते ह्यलंकाराश्चत्वारः परिकीर्तिताः ॥'
( १६ अ ४१ श्लो. )
इत्येवमंकारमुद्दिश्य लक्षयित्वा दृथ—
गूढार्थमर्थान्तरमर्थहीनं
भिन्नार्थमेकार्थमभिलुतार्थम् ।
...दृष्टम् ।'