साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 16, कुल 506 में से
संदर्भ में पढ़ेंभूमिका । २१
यदि चात्र सांप्रतिकपर्यालोचनदृष्ट्या कालसंकोचचिकीर्षया मीमासकानां
सहस्रसंवत्सरशब्दस्य सहस्रदिनपरताधिकरणन्यायोऽवतार्येत (जैमिनिदृ. ६ अ-
७ पा. १३ अधि.). तदापि विसंवादाधिस्तदवस्थ एवाभिलक्ष्यते । यतस्तत्र
साधारण्येनाधिकारिचिन्तायां ब्राह्मणानुगृहीतः कालसंकोच आश्रीयते; इह पुनर्-
विशेषेण कालकलनायां गमकाननुगृहीतः कालसंकोचो विकासो वा कथमाश्री-
येत । या च शतायुःश्रुतिः, सापि युगपरतया मन्वादिभिः स्मर्यते ( म. स्मृ. १
अ. ८१-८४ श्लो. ), इत्य सेतिहासपुराणाभ्यामेव किमपराद्धम् । यत्तदुक्तजातं
गमकानुपलम्भेऽप्यन्यथा नीयते । एतेन हि भगवन्तं रामभद्रं तत्पितरं तत्र-
भवन्तं दशरथं चाभिलक्षीकृत्य प्रवृत्तम्—
'दशवर्षसहस्राणि दशवर्षशतानि च ।
रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥'
रा. वा. का. १. स. ९७ श्लो.
'षष्टिवर्षसहस्राणि जातस्य मम कौशिक ।'
( रा. वा. का. २० स. १० श्लो. )
इत्यादिवाक्यं नासगतं मन्तव्यम् । बलादन्यथानयने तु सौरमानेन '११०००/३६५ =
२८८/३६५ इति ६००००/३६५=१६४६/३६५ इति तयोः कालावागच्छतः । अत्र द्वितीयस-
श्रद्धेयत्वेऽपि प्रथमः सर्वथाऽनुपपन्न एव । तथा तत्रैव रामायणे 'ऊनषोडश-
वर्षों मे रामो राजीवलोचनः' इत्येवमादिरुक्तकालो दिनत्वेन परिणममानोऽति-
तराम्रनुपपन्नो द्रष्टव्यः । नैवमत्रैवानुपपत्त्या पराक्रम्यते । यानि पुनर्ज्योतिषे होरा-
स्कन्धे नानाप्रकाराणि योगोत्थितानि पुरुषायूंषाणि पठितानि तत्रापि विसंवाद-
गलप्रहारं मुञ्चामहे । जैमिनीयन्यायोऽपि स्वातन्त्र्येणावतार्यमाणः कालकलनासु
प्रमाणपदवीं नाधिरोहतीत्यपि दर्शितमेव । देशकालद्विपयविप्रकृष्टनामभेरखराला-
पोऽपि दूरदर्शिभिरेकहेल्याऽवहेलयितुमशक्यः । प्रक्षेपोऽपि सजात्यान्न विशिष्य
मूलात्स्कन्दीत्यादि रूपेहत्य परीक्षणीयम् । तस्माद् वेदेष्विव तदुपोद्घातेष्वपि यद्
यथा स्मर्यते व्यवस्थाप्यते वा तन् तथैव नीयमानं पूर्वोपन्नं भवितुमर्हतीति
स्थितम् ॥
इदमपि पुरातत्त्वं प्रकृत पर्यालोच्यम्—
'श्रुतौ शतायुः पुरुषः प्रदिष्टो
बहुत्वयोगी शतशब्दशक्यः ।
रामादिकानामधिकायुराप्तौ
युक्तं प्रतीमः फलितेऽमितायुः ॥' इति ।
बहु च चात्र रूढ्यानुसारेण प्रतिपत्तव्यम् । दृष्टं च जैमिनीयव्याख्यानदर्शने
पुनरिदमपि पर्यालोच्यमेव—
'तं वार्षिकं वासरिको भवञ्च ( भवृत्त )-
भोगो भवेद् भास्करसंधयेन ।