साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 15, कुल 506 में से
संदर्भ में पढ़ेंयहाँ पृष्ठ पर अंकित पाठ का पंक्तिबद्ध लिप्यन्तरण प्रस्तुत है:
साहित्यदर्पणे
न च वेदविहारोऽयं संश्राव्यः शूद्रजातिषु ।
तस्मात्सृजापरं वेदं पञ्चमं सार्ववर्णिकम् ॥
एवमस्त्विति तानुक्त्वा देवराजं विसृज्य च ।
सस्मार चतुरो वेदान् योगमास्थाय तत्त्ववित् ॥
धर्म्यमर्थ्यं यशस्यं च सोपदेशं ससंग्रहम् ।
भविष्यतश्च लोकस्य सर्वकर्मानुदर्शकम् ॥
सर्वशास्त्रार्थसंपन्नं सर्वशिल्पप्रवर्तकम् ।
नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम् ॥
संकल्प्य भगवान्नेवं सर्वान्वेदाननुस्मरन् ।
नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसंभवम् ॥'
( १ अ. २—१६ श्लो )
एतेन वैवस्वताह्वयस्य सप्तमस्य मनो. कस्मिंश्चित्त्रेतायुगे राज्ञो नहुषस्य राज-
काले, यद्वा सांप्रतिकाद् गतकाले प्राग् द्वापरयुगे प्रोक्तेभ्यः पुराणेभ्यः पूर्वं त्रेता-
युगे नाट्यशास्त्रस्य प्रणयनमिति व्यक्तम् । तत्र प्रथमकोटावन्यो नहुषो द्वितीयको-
टावन्य इत्यपि सुभवन् पन्था । नहुषश्च आयुपः पुत्रो ययातेः पितेति
महाभारतम् ( आदिपर्व. ९५ अध्या ७ ग. ) ॥
यन्न मनुष्यस्य यावदायु संभाव्यते तावतो बह्वधिकनिबन्धनादिदानींतना इति-
हासपुराणेषु प्रसिद्धानानान्यान्यथाऽन्यथा गमयन्तोऽपि वस्तुतो न विश्रान्तिं संध-
दधते । उच्यते चनन् । यद् यथोत्पादितं तत् तथैव परीक्षितं स्वरूपप्रतिष्ठितं
भवति । इतरथा परीक्ष्यमाणं तु स्वरूपाप्रतिष्ठितमेव । नहि मृद्व्यतिरेकेण विभा-
व्यमानो घटट स्वरूपप्रतिष्ठितीति । एवमस्माकमार्यावर्तभुवामितिहास पुराणं
वापि न केवलमुत्तानावगमात्रमनिष्टकल्पनवैने, किंतु पातञ्जलादिप्रख्यातयोगवि-
द्वद्भिरुपलब्धा (यो. द. वि. पा. ) तत्रतत्र विप्रकृष्टदेशकालपात्रघटितमपि
वस्तु पश्यदन् । अत एव भगवता वेदव्यासेन—
'इतिहासपुराणाभ्यां वेदं समुपवृंहयेत् ।
बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥
( म. भा. आदिप. १ अ. ३६७ श्लो.)
इत्येतिहासिकपुराणस्य वेदौपबृंहणं निर्णीतम् । न स्याद्यद्येवमादरभूरिति-
हास पुराणं चेत्, तर्हि कथं कथमपि लोकवृत्तान्तं प्रवर्तमानं सिध्येत् । नैवं
कृतं कुशाग्रे ग्रन्थविस्तारबाहुल्येन । अत एव चात्र प्रसंख्यानावबोधेन कुतर्कीन्धा-
नर्थान् 'नैनं व्यामोहमगधो यदेनमन्धो न पश्यति' इत्यनेन परिह्रियते ।
तस्माद्यैस्तैः वस्तु यावत्प्रत्यक्षवद् बुद्धिविशेषयोगेन सुम्मानपात्रकल्पितं
तादृगेव सर्वमनुसंधेयम् विहितप्रसाधिनमवसेयम् ।
॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰ ॰
॰ ॰ ॰ ॰ ॰ ॰ ॰