सामग्री पर जाएँ
सर्वकोश
रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

पृष्ठ 96, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 96

प्रथमोऽध्यायः ६
[ आकृतितो ग्राह्यशिलाकथनम् ]
निविडा निर्व्रणा मृद्वी सुगन्धा मधुरा शिला ।
सर्वार्चालिङ्गपीठेषु श्रेष्ठा कान्तियुता च या ॥७॥
काश्यपशिल्पे तु—
वृक्षस्य पूर्वभागे तु मुखं पृष्ठन्तु पश्चिमे ।
दक्षिणं सव्यपार्श्वं स्याद्वामपार्श्वं तथोत्तरम् ॥ इति । (अ० ४९, २३ श्लो०)
परं तत्र तत्र शिलाया ऊर्ध्वाधःकथनं प्रतिमाया अपि ऊर्ध्वाधोनिर्णयाभिप्रायकम्, अन्यथा
तदुक्तेरुपयोगो दुरुपपाद एव स्यात् । एवञ्च मयमते शिलाया अधोऽग्रादिकमभिधाय मुखपृष्ठादि-
निर्णयार्थम्—
“मुखमुद्धरणेऽधोऽंशमूर्ध्वं भागं शिरो विदुः”
इति यदुक्तं तदपि निराकुलं सम्पद्यते । इतरथात्र शिलायाः शिरोमुखादिवचनमव्यावर्त्तकं
भवेत् । श्लोके ‘उद्धरणे’ इत्यस्य शिलाहरणे, ‘शिर’ इत्यस्य च मुखपृष्ठभाग इत्यर्थः । व्यक्तमाह
काश्यपशिल्पे—
“अधोभागं मुखं ख्यातं पृष्ठमूर्ध्वगतं भवेत्” इति । ( अ० ४९, ६८ श्लो० )
मूलश्लोके पश्चिमादिशिरस्कत्वकथनं शयानशिलाभिप्रायेण । दण्डायमानशिलायास्तु भूमिष्ठो-
ऽंशो मूलम्, ऊर्ध्वभागश्चाग्रमिति ज्ञेयम् । तदुक्तं मयमते—
“अग्रमूर्ध्वमधो मूलं पाषाणस्य स्थितस्य तु” इति । ( अ० ३३, १८ श्लो० )
७ । निविडा सुश्लिष्टाङ्गसन्धिः, निर्व्रणा स्फोटकाकृतिबिन्दुरहिता । बिन्दुमाह काश्यपः—
............त्रिविधा बिन्दुरेव हि ।
कृष्णलोहनिभाकारा कृष्णभ्रमरसन्निभा ॥
शिखिपिच्छसमाकारा............॥ इति ( अ