रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 51, कुल 335 में से
संदर्भ में पढ़ें[ 42 ]
Śl. 9 corresponds to विष्णुधर्मोत्तरम्, ३य-खण्डम्, २१—२३क-श्लोकाः ।
“श्वेतश्च पद्मवर्णश्च कुसुमोपलसन्निभः ॥
पाण्डुरो मुद्गवर्णश्च कापोतो भृङ्गसन्निभः ॥ २९ ॥
ज्ञेयाः प्रशस्ताः पाषाणाः अष्टावेते न संशयः” ॥
Śl. 15—19a correspond to Śilparatnam (ŚR.), Uttara-
bhāga (Part II), Chapt. 4, Śl. 1—8.
Śl. १९ क । श्लोकार्धं परित्यक्तमिति मन्ये । तस्य “द्वारं विभज्य दशधा भाग-
मेकं परित्यजेत् ।” इत्येवंरूपो हि पाठो भवितुमर्हति ।
Śl. १९ ख । महाप्रतिमादीनां भूयशः, श्मशाने, चतुष्पथे च पूजाविधिः शास्त्रेषु
लौकिकव्यवहाराच्च दृश्यते । कोषेषु च वर्त्मवाचकस्य “पद्या”शब्दस्य सत्त्वात्तथा लिपिशास्त्रानु-
रोधात्, “चतसॄणां पद्यानां समाहारः चतुष्पद्यम्” इति पाठः संघटते ।
तथा शिल्पशास्त्रादौ भूयशः धातूनां विकरण-व्यत्ययदर्शनात् “पूजयेत्” इत्यत्र
“पूज्येत्” इति च पाठः सम्भवेत् । तेनास्य श्लोकार्धस्य पाठ एवञ्जातः—
“बाणवेदकरान् यावच्चतुष्पद्ये पूज्येत् सुधीः ॥ १९ ॥”
‘महाप्रतिमा’प्रमाणं च शिल्पग्रन्थान्तरे, नेपालदेशादस्मदुपलब्धे ‘आत्रेयतिलके’⁹⁴
एवमुपदिष्टम् :—
“महाप्रतिमाविन्यासं प्रवक्ष्याम्यधुना शृणु ॥
दशपञ्चाधिकैर्हस्तैः प्रतिमा कन्यसी स्मृता ॥
द्विगुणा मध्यमा ज्ञेया ज्येष्ठा तु त्रि[गु]णा स्मृता ॥
अतः परन्न कुर्वीत यदि(दी)च्छेत् श्रेयआत्मनः ॥”
तथा ‘शुक्रनीतौ’, “क्रूर-ऽसुरी-पैशाचीमूर्त्तिव्यवस्था”ऽपि द्रष्टव्या⁹⁵ ॥
Śl. 26—31. ‘मत्स्यपुराणी’याः, अ० २९९ श्लो० १८—२०, एते ।
Śl. 36—43. एते, सर्वेऽपि श्लोकाः ‘बृहत्संहिता’तो यथा-यथम् उद्धृताः । बृ० सं०
BS. (Bibliotheca Indica) अ० ४६ (लिङ्गवैकृते) श्लो० १—८. Also,
herewith compare VD. (Viṣṇudharmottaram) II, Adh. 134, Śl. 5-9,
13,4-5.
- For detailed information regarding the Ātreya-tilakam see the
present writer's Buddha-pratimā-lakṣaṇam. The Sarasvatī Bhavana texts
Series No. 48. Benares, 1933. Introduction, pp. 5—8. - Unfortunately, this text is not accessible for the present, so quota-
tion cannot be given, Śukranīti, Ch. IV, Section 4.