रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 182, कुल 335 में से
संदर्भ में पढ़ेंपञ्चमोऽध्यायः ६५
दक्षिणे पुण्डरीकाक्षः पूर्वे नारायणः स्मृतः ।
पश्चिमे (स्याद् ? स्यात्तु)गोविन्द उत्तरे मधुसूदनः ॥१०६ ॥
ईशाने स्थापयेद् विष्णुमाग्नेय्याञ्च जनार्दनम् ।
नैर्ऋत्ये पद्मनाभञ्च वायव्यां माधवं तथा ॥ १०७ ॥
केशवं मध्यतः स्थाप्यमथवा वासुदे( वं करम् ? वकम् ) ।
सङ्कर्षणप्रद्युम्नौ चानिरुद्धश्च यथाक्रमम् ॥ १०८ ॥
जलशायी तथा प्रोक्तो दशावतारसंयुतः ।
शूकरश्चाग्रतः स्थाप्यः सर्वदेवमयः शुभः ॥ १०६ ॥
इति विष्ण्वायतनम् ।
प्रतीहारांस्ततो वक्ष्ये अष्टौ चतुर्षु दिक्षु च ।
तस्यानुक्रमरूपञ्च लक्षयेद् यस्य यादृशम् ॥ ११० ॥
वामनाकाररू(पै ? पा)श्च कर्त्तव्याः सर्वतः शुभाः ।
तर्जनीशङ्खचक्रं चेदं प्राग् दक्षिणक्रमात् ॥ १११ ॥
(द ? च)ण्डाभिधानकः प्रो(क्ता शस्त्रा ? क्तोऽस्या)पसव्ये
प्रचण्डकः ।
वामे चण्डः प्रकर्त्तव्यः प्रचण्डो दक्षिणे तथा ॥ ११२ ॥
१०६ । 'गोविन्दः पश्चिमे स्थाप्य' इति रूपमण्डने ( ३ अ० ६३ श्लो० ) पाठः ।
१०८ । 'केशवो मध्यतः स्थाप्यो वासुदेवोऽथवा बुधैः ।
सङ्कर्षणो वा प्रद्युम्नोऽनिरुद्धो वा यथाविधि ॥' इति रूपमण्डने पाठः ।
११० । यस्य प्रतीहारस्य यादृशमनुक्रमरूपं भवेत् , तस्य तादृशमनुक्रमरूपं लक्षयेत् ,
वक्ष्यमाणलक्षणत इत्यर्थः । अनुक्रमः हस्तेषु वामदक्षिणादिक्रमेण ऊर्ध्वाधःक्रमेण चास्त्राणां
सन्निवेशपरिपाटी । रूपम् आकृतिः ।
१११ । 'तर्जनी शङ्खचक्रे च दण्डं प्राग् दक्षिणक्रमात्' इति स्यात् । एवमेव रूपमण्डने
पाठः ( ३ अ० ६८ श्लो० ) ।
११२ । 'अपसव्ये प्रचण्डक' इत्युक्त्यैव सव्ये चण्डक इति लभ्यते ; एवञ्च 'वामे चण्डः'
इत्याद्यनुवादकमङ्गं सुखार्थम् । यद्वा, सव्यशब्दस्य वामदक्षिणोभयवाचित्वेन अपसव्यशब्दस्यापि