रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 149, कुल 335 में से
संदर्भ में पढ़ें६२ देवतामूर्त्तिप्रकरणम्
नीलोत्पलदलाभासः सामवेदो हयाननः ।
अक्षमालान्वितो दक्षे वामे कम्बुधरः स्मृतः ॥ ११ ॥
इति सामवेदः ।
अथर्वणाभिधो वेदो धवलो मर्कटाननः ।
अक्षसूत्रञ्च खट्वाङ्गं बिभ्राणो विजयश्रिये ॥ १२ ॥
इत्यथर्वणः ।
नृत्यशास्त्रं सितं रम्यं मृगवक्त्रं जटाधरम् ।
अक्षसूत्रं त्रिशूलञ्च बिभ्राणं तं (तत् ?) त्रिलोचनम् ॥१३॥
इति नृत्यशास्त्रम् ।
[ अथ ब्रह्मायतनेऽन्यदेवतापदम् ]
आग्नेय्यां तु गणं प्रोक्तं मातृस्थानञ्च दक्षिणे ।
नैर्ऋत्ये तु सहस्राक्षं वारुण्यां जलशायिनम् ॥ १४ ॥
वायव्ये पार्वतीरुद्रौ गृहा ( ग्रहा ? ) श्चैवोत्तरे स्मृताः ।
ईशाने च श्रिया देवी प्राच्यान्तु धरणीधरः ॥ १५ ॥
[ अथ ब्रह्मणोऽष्टौ प्रतीहाराः ]
ब्रह्मणो ( णोऽ ?) ष्टौ प्रतीहाराः कथयिष्याम्यनुक्रमात् ।
पुरुषाकारगम्भीराः सकूर्ची ( र्चा ?) मुकुटोज्ज्वलाः ॥ १६ ॥
१४-१५ । अत्र द्वितीयान्तानां पदानां कल्पयेदित्यध्याहृतक्रिययाऽन्वयः, गणं प्रोक्तमिति
शास्त्रान्तरे कथितं गणदेवमित्यर्थः । श्रिया देवीत्यभेदे तृतीया श्रीदेवीत्यर्थः ।
१६ । पूर्वं ब्रह्मणश्चतुरो भेदान् दर्शयन्नपि साम्प्रतं ब्रह्मत्वेनैक्यं परिकल्पयन् अष्टौ प्रतीहारा-
नाह—ब्रह्मण इति । तत्राऽऽदौ सर्वसाधारणं विशेषणत्रयमाह—पुरुषेत्यादि । सकूर्चा इति । कूर्च-
शब्दो नानार्थः । तत्र श्मश्रु इत्येकोऽर्थः, नासङ्गतानि हि प्रवयसः पितामहस्य प्रतीहाराणाम्
अतिलम्बीनि श्मश्रूणि । कुशमुष्टिरिति द्वितीयः, तत्स्वरूपञ्च—
छिन्नमूलाः कुशा दीर्घाः सप्तविंशतिसंख्यकाः ।
ब्रह्मग्रन्थियुतास्त्वग्रदेशे कूर्चमिहोच्यते ॥