रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)
Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana
मण्डन सूत्रधार द्वारा
पृष्ठ 148, कुल 335 में से
संदर्भ में पढ़ेंचतुर्थोऽध्यायः ६१
अक्षसूत्रं पुस्तकञ्च श्रुतिश्चैव कमण्डलुः ।
विरिञ्चि(ञ्चे ?)श्च भवेन्मूर्त्तिः कृते स्यात् सुखदायिनी ॥५॥
इति विरिञ्चिः ।
कमण्डलुश्चाक्षसूत्रं शुचिर्वै पुस्तकं तथा ।
पितामहस्य स्यान्मूर्त्तिस्त्रेतायां सुखदायिनी ॥ ६ ॥
इति पितामहः ।
पुस्तकं चाक्षसूत्रञ्च शुचिश्चैव कमण्डलुः ।
ब्रह्मणश्च भवेन्मूर्त्तिः कृते स्यात् सुखदायिनी ॥ ७ ॥
इति ब्रह्मा ।
अक्षसूत्रं पुस्तकञ्च धत्ते पद्मं कमण्डलुम् ।
चतुर्वक्त्रा तु सावित्री श्रोत्रियाणां गृहे स्थिता ॥ ८ ॥
इति सावित्री ।
ऋग्वेदः श्वेतवर्णः स्याद् द्विभुजो रासभाननः ।
अक्षमालाम्बुपात्रे च पि ( श्रि ?) तश्चाध्ययने रतः ॥ ६ ॥
इति ऋग्वेदः ।
अजास्य(ः ?) पीतवर्णः स्याद् यजुर्वेदोऽक्षसूत्रधृक् ।
वामे चाङ्कुशपाणिस्तु भूतिदो मङ्गलप्रदः ॥ १० ॥
इति यजुर्वेदः ।
५। विरिञ्चिमाह—अक्षसूत्रमिति। श्रुतिर्वेदः, इतरत्र लक्षणत्रये 'शुचि'रिति पाठो
दृश्यते तत्रापि 'श्रुति'रिति भवेन्न वेति विचारणीयम् । शुचिरग्निः। कृते सत्ययुगे । इहान्यत्र
च ब्रह्मणो लक्षणद्वये अक्षसूत्रादिप्रथमान्तपदानामान्वयो दुरुपपाद एव । दूषणञ्च—अक्षसूत्रादीना-
मुद्देशपरतामात्रस्वीकारेण तत्तद्विशिष्टा मूर्त्तिरित्यध्याहारजन्यम् ।
८। श्रोत्रियाणामिति—
'जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते ।
विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥'
इत्युक्तलक्षणानां वेदविदाम् ।
९। अक्षमालेत्यादि। अक्षमालाम् अम्बुपात्रञ्च श्रित इत्यर्थः ।