रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 217, कुल 520 में से
संदर्भ में पढ़ें172 रत्नावली
त्यक्त्वा त्वरां व्रज पदैः¹ स्खलितैरयं ते
खेदं गमिष्यति²गुरुर्नितरां नितम्बः ॥ १७ ॥
सुसङ्गता—भट्टा ! अदिकोवणा क्खु एसा । ता अग्गहत्थे³
गेण्हिअ पसादेहि णं । (क)
राजा—( सानन्दम् ) यथाह भवती । ( सागरिकां हस्ते गृहीत्वा
स्पर्शसुखं नाटयति )
विदूषकः—भो ! एसा क्खु तुए अपुव्वा सिरी समासादिदा !
( ख )
राजा—वयस्य ! सत्यम् ।—
श्रीरैषा पाणिरप्यस्याः पारिजातस्य पल्लवः ।
कुतोऽन्यथा पततेष⁴ स्वेदच्छद्मामृतद्रवः ॥ १८ ॥
सुसङ्गता—सहि ! अदिनिट्ठुरा दाणिं सि, तुमं, जा एव्वं
भट्टिणा हत्थेबलंबिदा बि कोवं ण मुंचेसि⁵ । (ग)
सागरिका—(ससम्भ्रमम्) अइ सुमङ्गदे ! अज्ज वि ण विरमसि !
( घ )
(क) भर्तः, अतिकोपना खलु एषा । तद् अग्रहस्ते गृहीत्वा प्रसादय एनाम् ।
(ख) भोः, एषा खलु त्वया अपूर्वा श्रीः समासादिता ।
(ग) सखि, अतिनिष्ठुरा इदानीमसि त्वम्, या एवं भर्त्रा हस्ते अवलम्बितापि कोपं
न मुञ्चसि ।
(घ) अयि सुसङ्गते ! अद्यापि न विरमसि !
- पदस्खलितैः । 2. करिष्यति । 3. हत्थे । 4. स्रवतेषः । 5. अदक्खिणा
...गहिदावि ।