रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 218, कुल 520 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः १७३
राजा—प्रिये सागरिके ! १न खलु सखीजने युक्तमेवं कोपानु-
बन्धं कर्तुम्२ ।
विदूषकः३—भोदि ! बुभुक्खिदो बह्मणे विअ किं कुप्पसि ?
( क )
सुसङ्गता*—सहि ! तुए सह ण बोलइस्सं४ । (ख)
राजा—अयि कोपने ! नैतद्युक्तं समानप्रतिपत्तिषु सखीषु५ ।
विदूषकः—एसा क्खु अवरा देवी बासबदत्ता ! (ग)
( राजा सचकितं सागरिकाया हस्तं मुञ्चति )
सागरिका—( ससम्भ्रमम्) सुसंगदे ! किं दाणिं करिस्सं ? (घ)
सुसङ्गता—सहि ! एदं तमालविड़बं६ अंतरिअ इदो णि-
क्कमह्म । (ङ)
( इति निष्क्रान्ते )
राजा—( पार्श्वतोऽवलोक्य सवैलक्ष्यम् ) क्कासौ देवी वासवदत्ता ?
विदूषकः—७भो ! सा एदं । सा क्खु७ अवरा देवी बासबदत्ता
अदिदीहररोसदाएत्ति भणिदं । ( च )
(क) भवति, बुभुक्षितः ब्राह्मणः इव किं कुप्यसि ?
(ख) सखि, त्वया सह न वदिष्यामि ।
(ग) एषा खलु अपरा देवी वासवदत्ता !
(घ) सुसङ्गते, किमिदानीं करिष्यामि ?
(ङ) सखि, एतं तमालविटपम् अन्तरित्वा निष्क्रामावः ।
(च) भोः, सा इदम् । सा खलु अपरा देवी वासवदत्ता अतिदीर्घरोषतयेति
भणितम् ।
१. न खलु युज्यते सखीजने एवंविधः कोपानुबन्धः । २ अयि प्रसीद । ३, ४, ५.
पुस्तकान्तरे न दृश्यते । ६. एदाए कदलीवीधियाए । ७. ण आणामि क सा ।
मए एसा क्खु...। or मा ण' एदं । पुस्तकान्तरेषु सागरिकाया उक्तिरियम् ।