रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 122, कुल 520 में से
संदर्भ में पढ़ें'मधुमासि तु सम्प्राप्ते शुक्लपक्षे चतुर्दशी ।
प्रोक्ता मदनभञ्जीति सिद्धिदा तु महोत्सवे ॥
पूजयिष्यन्ति ये मर्त्यास्तदङ्गभवपल्लवैः ।
ते यान्ति परमं स्थानं मदनस्य प्रभावतः ॥
चैत्रे मासि चतुर्दश्यां मदनस्य महोत्सबः ।
जुगुप्सितोक्तिभिश्चात्र गीतवाद्यादिभिर्भृशम् ।
भगवांस्तुष्यते कामः पुत्रपौत्रसमृद्धिदः ॥ ( तिथितत्त्वम् )
सबहुमानम्—with proper respect. बहुः मानः (कर्मधा ) तेन सह विद्यमानं
यथा स्यात् ( बहु ) तथा ; आह्वय-क्रियायाः विशेषणम् ।
नानादिग्देशागतेन—coming from various quarters and countries.
Adj. to राजसमूहेन ।
पादपद्मोपजीविना—subsisting on the lotus-like feet. पादौ पद्मे इव
( उपमितकर्मधा ) तयोः उपजीवी ( ६ष्ठीतत् ) or पादपद्मे उपजीवितुं शीलं यस्य
उपपदतत्—पादपद्मोप — जीव् + णिनिः । तेन । This shows that Shri
Harsha was the paramount monarch commanding suzerainty
over all other princes.
अपूर्व्ववस्तु etc.—Beautified by the construction of an attractive
plot.' नास्ति पूर्व्वं यस्मात् तत् ( बहु ) ; अपूर्व्वं वस्तु ( plot ) ( कर्मधा ) तेन
अलङ्कृता ( ३यातत् ) । Here the poet tacitly gives a hint of the
innovations that he has made on the original plot of the
वत्सराजचरितम् ।
रत्नावली—The name of the नाटिका after the heroine रत्नावली the
daughter of the king Simhala. नाटिका, सट्टक other small dramas
are named after the names of their heroines. cf. . 'नाटिका-
सट्टकादीनां नायिकाभिर्विशेषणम् ।'
श्रोत्रपरम्परया—श्रोत्राणां परम्परा ( ६ष्ठीतत् ) ; by hearsay.