सामग्री पर जाएँ
सर्वकोश
रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)

रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)

Rasendra Sara Sangraha of Gopalakrishna with Commentary

गोपालकृष्ण भट्ट (टीकाकार: पं. रामप्रसाद वैद्य) द्वारा

DevanagariHindipublished584 पृष्ठ

पृष्ठ 257, कुल 584 में से

संदर्भ में पढ़ें
पृष्ठ 257

भाषाटीकासहित । (२३१)
चन्द्रप्रभा वटिका ।
क्रिमिरिपुदहनव्योषत्रिफलासुरदारुचव्यभूनिम्बम् ।
मागधिमूलं मुस्तं सशटा वचा धातुमाक्षिकञ्चैव ॥
लवणक्षारनिशायुगकुस्तुम्बुरुगजकणातिविषा ।१२॥
कर्षांशकान्येव समानि कुर्यात्पलाष्टकं चाश्मज-
तोर्विदध्यात् । निष्पत्रशुद्धस्य पुरस्य धीमान्
पलद्वयं लौहरजस्तथैव ॥ १३ ॥ सिताचतुष्कं
पलमत्र वांश्यां निकुम्भकुम्भात्रिसुगन्धियुक्तम् ।
चन्द्रप्रभेयं गुटिका विधेया अर्शांसि निर्णाशयते
षडेव॥१४॥भगन्दरं कामलपाण्डुरोग विनष्टवह्नेः
कुरुते च दीप्तिम् । हन्त्यामयान् पित्तकफानिलो-
त्थान्नाडीगते मर्मगते व्रणे च ॥ १५ ॥ ग्रन्ध्यर्बुदे
विद्रधिराजयक्ष्ममेहे भगाख्ये प्रदरे च योज्या ।
शुक्रक्षये चाश्मरिमूत्रकृच्छ्रे मूत्रप्रवाहेऽप्युदरा-
मये च ॥१६॥ तक्रानुपानं त्वथ मस्तुपानमाजो
रसो जाङ्गलजो रसो वा । पयोऽथवा शीतजलानु-
पानं बलेन नागस्तुरगो जवेन ॥ १७ ॥ दृष्ट्या
सुपर्णः श्रवणे वराहः कान्त्या रतीशो धिषणश्च
बुद्धया । न पानभोज्ये परिहार्यमस्ति न शीत-
वातातपमैथुनेषु । शम्भुं समभ्यर्च्य कृतप्रणामं
प्राप्ता गुटी चन्द्रमसःप्रसादात् ॥१८॥ शुक्रदोषान्
निहन्त्याशु प्रमेहानपि दारुणान् । वलीपलित-
निर्मुक्तो वृद्धोऽपि तरुणायते ॥ १९ ॥