रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 680, कुल 799 में से
संदर्भ में पढ़ेंबाह्यमाभ्यन्तरं रक्तस्रावं ह्रासयति द्रुतम् ॥ ४६ ॥
सदाहं सज्वरं तीव्रशिरोवेदनयान्वितम् ।
सदाहं भ्रूयुगं हन्ति प्रतिश्यायं नवोत्थितम् ॥ ४७ ॥
सकफां बहुरक्तां वा स्वल्परक्तामुपक्रमे ।
प्रवृद्धमलवेगाढ्यां विनिहन्ति प्रवाहिकाम् ॥ ४८ ॥
ऊर्ध्वजत्रुगता या तु नाडिका पञ्चमो मता ।
शूलं तदुत्थितं शीघ्रं विनिहन्ति विशेषतः ॥ ४९ ॥
बहुवेगं वाल्पवेगं प्रगाढरक्तलोहितम् ।
ज्वरान्वितं तूर्ध्वगतं रक्तपित्तं व्यपोहति ॥ ५० ॥
तावदेव प्रयोक्तव्यं विषं होरात्रयोत्तरम् ।
गात्रतापं भवेन्नेह यावत् खलु शतांशिकम् ॥ ५१ ॥
अन्तर्दाहसमायुक्तं द्रुतं प्रबलनाडिकम् ।
पिपासया परिगतं द्रुतहृद्गतिसंयुतम् ॥ ५२ ॥
अजीर्णाध्मानसंयुक्तं तथैव स्वेदवर्जितम् ।
अतिमात्राभिसंवृद्धगात्रतापांशसंगतम् ॥ ५३ ॥
कासकम्पशिरःशूलैः पर्याकुलमनारतम् ।
अस्थैर्य्यारतिवैचित्यभयोद्वेगादिसंयुतम् ॥ ५४ ॥
वातवेदनयाक्रान्तं त्वारक्तमुखमण्डलम् ।
शुष्कोष्णचर्मसंस्पर्शं प्रगाढारक्तमूत्रकम् ॥ ५५ ॥
शीतपूर्वं तु दाहान्तं ज्वरं विविधहेतुजम् ।
विषं विधिप्रयुक्तं तु नाशयत्याशु निश्चितम् ॥ ५६ ॥
त्रिविधोत्थानसंभूतान् विविधस्थानसंस्थितान् ।
निहन्ति तरुणानाशु शोथांस्तु विविधाकृतीन् ॥ ५७ ॥
विविधस्थानसंस्थानां त्वसह्यत्वप्रकाशिकाम् ।
स्पर्शासहां गात्रभवां वेदनाञ्च निहन्त्यलम् ॥ ५८ ॥
तत्तद्रागघ्नभैषज्ययुतं तु विमलं विषम् ।
योगवाहितया हन्ति सर्वानैव महामयान् ॥ ५९ ॥
नानारसप्रयोगेण शान्ति यान्ति न ये गदाः ।
विषप्रयोगेण तु ते शाम्यन्ति हि न संशयः ॥ ६० ॥
अथास्य भूयः गुणवर्णनं विस्तरेण यथानुभवमाह-यस्माद्विषमविधिना युक्तं