रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 679, कुल 799 में से
संदर्भ में पढ़ें६५४ रसतरङ्गिणी
वत्सनाभस्य विशिष्टा गुणाः
विषं प्राणप्रदमलं विधिना परिशीलितम् ।
तदेवाविधिना युक्तं मतं प्राणहरं परम् ॥ ३२ ॥
तस्माद्विषविधानज्ञो रोगाणां लक्षणानि तु ।
विमृश्य सूक्ष्मया बुद्ध्या प्रयुञ्जीत प्रयत्नतः ॥ ३३ ॥
विषं विशेषतो वातवेदनाहरमुत्तमम् ।
मूत्रलं स्वेदजननं शूलनिर्मूलनं परम् ॥ ३४ ॥
प्रवृद्धतापशमनं तथा शोथानिषूदनम् ।
तत्तद्धेतुप्रवृद्धाया हृद्गतेश्च नियामकम् ॥ ३५ ॥
स्वेदसञ्जनकान्येषाम् भेषजानामपेक्षया ।
परं तु तापशमनं न चार्त्तिस्वेदकृत्तथा ॥ ३६ ॥
प्रवृद्धरक्तसञ्चारसुसंयमनसंविधौ ।
अमोघाख्यमिदं ख्यातं सर्वोत्कृष्टं महौषधम् ॥ ३७ ॥
रसतंत्राच्चिकित्सायां बाहुल्येन निरूपिते ।
विषप्रयोगे भूम्ना तु प्रवृत्ते सति भारते ॥ ३८ ॥
पूर्वाचार्यविनिर्दिष्टं रक्तनिर्हरणादिकम् ।
इदानीमत एवेह तिरोभूतं तु निर्भरम् ॥ ३९ ॥
विशोधितं खलु विषं मात्रया परिशीलितम् ।
हृदयस्य गतिं नैवावसादयति कर्हिचित् ॥ ४० ॥
मस्तिष्कदेशे संवृद्धां रक्तसञ्चरणक्रियाम् ।
नाशयत्याशु मस्तिष्के जातं वा रक्तसञ्चयम् ॥ ४१ ॥
फुप्फुसच्छदशोथघ्नस्तथा फुप्फुसशोथनुत् ।
तथा शोथसमुद्भूतविविधज्वरवेगजित् ॥ ४२ ॥
शोथं विनाशयत्याशु हृदयावरणोत्थितम् ।
तथान्त्रावरणोद्भूतं ज्वरञ्च विनिहन्त्यलम् ॥ ४३ ॥
फुप्फुसच्छदशोथादिरोगाणां प्रक्रमे विषम् ।
प्रयुक्तं निरुणद्ध्येतत् केषांचिद्विषजां मतम् ॥ ४४ ॥
गलशोथं तुण्डिकेरीं तथैव गलशुण्डिकाम् ।
अन्यांशच तरुणान् कण्ठरोगानाशु निहन्त्यलम् ॥ ४५ ॥
तत्तन्स्थानसमुद्भूतं त्वभिघातादिहेतुजम् ।