रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 498, कुल 799 में से
संदर्भ में पढ़ें४७२ | रसतरङ्गिणी
अथ सजलारनालीयणसीसकद्रवस्य प्रयोगक्रमः
आरनालीयकाह्वत्थं द्रवन्तु सकलं भिषक् ।
सलिले सप्तगुणिते सम्मेल्य विनियोजयेत् ॥ ८२ ॥
अस्य च प्रयोगसमये भूयः सप्तगुणं जलमेलनं विधेयमिति ॥ ८२ ॥
भा.टी.-जब उक्त सजल आरनालीयका सीसकद्रव का प्रयोग करना हो
तो इसे सातगुणा शुद्ध जल मिश्रित करके प्रयोग करना चाहिये ॥ ८२ ॥
अस्य आमयिकः प्रयोगः
जलाभस्राविणां दाहवतां पूयवतामपि ।
व्रणानां धावनार्थन्तु विधानज्ञः प्रयोजयेत् ॥ ८३ ॥
मेढ्रमार्गेण चेन्नॄणां व्रणमेहस्य हेतुना ।
स्रावो जायेत मतिमान् बस्तिकर्मविचक्षणः ॥ ८४ ॥
आरनालीयकाह्वत्थं द्रवन्तु सजलं तदा ।
जलेनोद्दिष्टमानेन युञ्जीतोत्तरबस्तिना ॥ ८५ ॥
रक्तिद्वयमितं सारं त्वहिफेनसमुद्भवम् ।
षष्टिबिन्दुमितञ्चैव काञ्जिकाम्लीयकाहिजम् ॥ ८६ ॥
द्रवन्तु सजलञ्चाथ सार्द्धकोलद्वयं जलम् ।
सम्मेल्य भिषजां वर्यस्त्वक्शोफे तु विसर्पजे ॥ ८७ ॥
अभिघातोत्थशोथे च घृष्टसंपिष्टितास्थिषु ।
धावनार्थं प्रयुञ्जीत सर्वथैव विधानतः ॥ ८८ ॥
अभिघातोत्थितं दाहं कण्डूतिञ्च हरेद् ध्रुवम् ।
योनिपायुप्रदेशोत्थां कण्डूतिञ्च विनाशयेत् ॥ ८६ ॥
नागद्रवं त्वन्तराले मणिशिश्नाग्रचर्मणोः ।
काचबस्तिप्रयोगेण शल्यवित्त्तु प्रदापयेत् ॥ ६० ॥
फिरङ्गजं महाघोरं शोथदाहरुजान्वितम् ।
नाशयेदाशु योगोऽयं निरुद्धप्रकशामयम् ॥ ६१ ॥
अस्य रोगयोग्यः प्रयोगः-फिरंगोपद्रवे निरुद्धप्रकशे छेदनेन नव्या रुग्णास्य
महतीं व्यापदमापादयन्ति इति तत्रापि उक्तनागद्रवस्यैव काचबस्तिद्वारा निवेशात्
लघीयसी भवति सिद्धिरित्यभिनव एवाय प्रभूतफलः प्रयोगप्रकारं उद्भावित
आचार्यैरिति तदेतदाह नागद्रवन्वन्तराले इति ॥ ८३-६१ ॥
भा.टी.-उक्त सजल आरनालीयका सीसकद्रव को सातगुणा जल में मिला-