सामग्री पर जाएँ
सर्वकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 423, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 423

षोडशस्तरङ्गः ३६७
यवानीचित्रकक्वाथयुतं तु परिशीलितम् ॥ ६४ ॥
गृध्रसीं चैव विश्वाचीं तथैव त्रिकवेदनाम् ।
विविधस्थानसम्भूतं नाडीशूलं व्यपोहति ॥ ६५ ॥
पर्पटोशीरधान्यादिपित्तघ्नक्वाथसंयुतम् ।
चन्द्रलोहं निहन्त्याशु पित्तं शाखासमाश्रितम् ॥ ६६ ॥
राजावर्तेसमायुक्तं रजतं परिशीलितम् ।
मदात्ययात्ययकरं समाख्यातं विशेषतः ॥ ६७ ॥
चोपचीनीसमायुक्तं रजतं परिशीलितम् ।
आध्मानं चिरसञ्जातं नाशयत्याशु निश्चितम् ॥ ६८ ॥
सितोपलायुतं रौप्यं यत्नतः परिशीलितम् ।
सत्वरं नाशयत्येव दाहं शाखाश्रितं ध्रुवम् ॥ ६९ ॥
सिताघृततैलासंयुक्तं रजतन्तु निषेवितम् ।
उन्मादं नाशयत्येव ह्यचिरादेव दारुणम् ॥ ७० ॥
त्रिजातकसमायुक्तं रजतं परिशीलितम् ।
प्रमेहादिकरोगांश्च द्रुतमेव निवारयेत् ॥ ७१ ॥
क्षीरकाकोलिकोपेतं चोपचीनीसमन्वितम् ।
रससिन्दूरसंयुक्तं रजतं परिशीलितम् ॥ ७२ ॥
गर्भाशयाज्जायमानं सशूलं कुसुमोद्गमम् ।
श्लैष्मिकन्तु कलास्रावं द्रुतमेव विनाशयेत् ॥ ७३ ॥
स्थिरात्मगुप्ताशतमूलिकाभिनिषेवितं वै खलु चन्द्रलोहम् ।
मासद्वयेनैव निहन्ति कार्श्यं बल्यञ्च वृष्यञ्च परं प्रदिष्टम् ॥७४॥
कृमिघ्नभल्लातकविश्वयुक्तै र्यत्नेन तारं परिशीलितन्तु ।
मासैकयोगेन हि सुन्दरीणां सौन्दर्यवृद्धिं जनयेन्नितान्तम् ॥७५॥
अथास्य रोगयोग्यः प्रयोगः—वरावारा त्रिफलाजलेन, डिम्बाशयो बीजाधारः
“Ovary” इत्याङ्ग्लभाषायाम्, तस्मिन्नुद्भूता या तीव्रा वेदना तया युक्ता
गर्भाशयस्य स्वस्थात् च्युतिं हरतीति । अत्र वामडिम्बाशय इत्युपलक्षणम्,
तेन दक्षिणडिम्बाशयोद्भूतवेदनान्वितां गर्भाशयच्युतिमपि नाशयति इति ज्ञेयम्।
अण्डधारभवामयः—“रमणातिशयाच्छैत्यादभिघाताद्विपादपि । अण्डधारगदः
कृच्छ्रो जायते चाहिताशनात् ॥ उदरोरुव्यथा तीव्रा मूत्रस्याल्पत्वरक्तते। ज्वरारो-
चकहृल्लासा अरतिर्बलसंक्षयः ॥ धमनी वेगिनी क्षुद्रा जिह्वा रक्तोत्पला तथा।