सामग्री पर जाएँ
सर्वकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 239, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 239

नवमस्तरङ्गः १६६
हिंगुलस्य स्वरूपम्
जपाकुसुमवर्णाभः पेषणे सुमनोहरः ।
महोज्ज्वलो भारपूर्णो हिंगुलः श्रेष्ठ इष्यते ॥३॥
भा.टी.—उत्तम हिंगुल गुड़हल के पुष्प सदृश वर्ण का, पीसने में कोमल
देखने में चमकीला लाल और भारयुक्त होता है ॥ ३ ॥
हिंगुलस्य द्वौ भेदौ
प्रथमः खनिजोऽन्यस्तु कृत्रिमो हिंगुलो मतः ।
खनिजः खनितो जातः कृत्रिमो रसगन्धजः ॥४॥
खनिजःकृत्रिमश्चेति हिंगुलस्य द्वौ भेदौ। प्राञ्चस्तु—"दरदस्त्रिविधः प्रोक्त-
श्चर्मारः शुकतुण्डकः । हंसपादस्तृतीयः स्याद् गुणवानुत्तरोत्तरः ॥” इत्याहुः ।
आचार्यैस्तु यथोपलब्धिव्यवस्थानमाचरितमिति विशेषः । वस्तुतस्तु—"चर्मारः
शुकवर्णः स्यात् सपीतः शुकतुण्डकः। जपाकुसुमसंकाशो हंसपादो महोत्तमः ॥”
इत्यनुविधानात् खनिजस्यैव विधात्रयमित्याहुः । कृत्रिमस्तु कठिनमसृणभेदा-
द्विद्यते इति निर्माणप्रकारे वक्ष्यते ॥ ४ ॥
भा.टी.—हिंगुल के दो भेद होते हैं १—खनिज हिंगुल, २—कृत्रिम
(बनावटी) हिंगुल । इसमें से खनिज हिंगुल खानों से प्राप्त होता है, किन्तु
कृत्रिम पारदगन्धक से मृदंगयन्त्र द्वारा बनाया जाता है ॥ ४ ॥
वक्तव्य—प्राचीन रसशास्त्र मे हिंगुल के चर्मार, शुकतुण्डक तथा हंसपाद
ये तीन भेद पाये जाते हैं । ये तीन भेद खनिज के समझने चाहिये । परन्तु
यहाँ पर साधारणरूप से प्राप्त होनेवाले जपाकुसुमवर्ण हिंगुल का ही वर्णन
किया गया है ॥
कृत्रिमहिंगुलस्य निर्माणप्रकारः
वसुभागमितं गन्धं सूतं नेत्रयुगोन्मितम् ।
मृदङ्गयन्त्रे संस्थाप्य वारंगं भ्रामयेत्ततः ॥५॥
तस्य सम्भ्रमणादेव श्लक्ष्णचूर्णं प्रजायते ।
व्यावर्त्तनपिधानञ्च सम्भ्राम्य ह्यवतारयेत् ॥६॥
चूर्णं धूसरवर्णाभं यन्त्रान्निष्कासयेत्ततः ।
सुदृढायां ततः स्थाल्यां चूर्णमेतन्निधापयेत् ॥७॥
रेखान्वितमुखी स्थाली बुधैरत्र प्रशस्यते ।
व्यावर्तनमुखीमन्यां स्थालीं तस्यां निधापयेत् ॥८॥