सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

१५२ रसार्णवे
पारदं देवदेवेशि स्वेदयेद्दिवसत्रयम् ॥ ३८ ॥
॥ इत्योषधस्वेदनम् ॥¹
गिरिकर्णी च मोनाक्षी सहदेवो पुनर्णवा ।
उरगा त्रिफला कान्ता² लवुपर्णी³ शतावरौ ॥ ३९ ॥
तुषवर्जे तु धान्याम्ले⁴ सर्व्वं संक्षुभ्य⁵ निक्षिपेत् ।
एकादशगुणे⁶ऽम्लेऽस्मिन् षोड़शांशैर्विमर्द्दितम् ॥ ४० ॥
आसुरोलवणव्योष चित्रकार्द्रकमूलकैः⁷ ।
दोलायां⁸ स्वेदयेद्देवि त्रिदिनं मृदुनाग्निना ॥ ४१ ॥
॥ इति सन्धानाम्लस्वेदनम् ॥
अङ्कोलस्तु⁹ विषं हन्ति वङ्घ्रि¹⁰मारग्वधः प्रिये ।
(1) K has इत्योषधिखेदन तु कथितं तव सुव्रते । After this we find in K
the following verses, which we have rejected, as these seemed to us
incongruous, incorrect and

दशमः पटलः । १५३
चित्रकस्तु^1 मलं हन्यात् कुमारी सप्तकञ्चुकम् ॥ ४२ ॥^2
लक्षादेभिः समोपेतै^3र्मर्दयेत् पातयेद्बुधः^4 ॥ ४३ ॥
विद्याधरेण यन्त्रेण भावयेद्दोषवर्जितम्^5 ।
ततस्त्रिगुणवस्त्रस्थं^6 तं रसं देवि गालितम्^7 ॥ ४४ ॥
त्रिफलांबङ्घ्रिमूलत्वात्^8 गृहकन्या^9रसान्वितम् ।
निबद्वारे^10 तु पाषाणे मर्दयेत् पातयेत् पुनः ॥ ४५ ॥
धूमसारगुड़^11व्योष-रजनोसित^12सर्षपैः ।
इष्टिकाकाक्षिकोर्णाभिः^13 त्रिदिनं मर्दयेत्ततः^14 ॥ ४६ ॥
निर्मलो जायते सूतः^15 सप्तभावं प्रकाशयेत्^16 ॥ ४७ ॥
बासकेन^17 विभौतेन मर्दयेत् पातयेत् पुनः ।
नागवङ्गादिका दोषा यान्ति नाशमुपाधिजाः^18 ॥ ४८ ॥
(1) M reads चित्रकश्च. (2) But compare रसै.स. Chap. XI.
v. 28, which differs from the above in certain points. (3) K
reads समोत्पेतै, which is incorrect. M reads तक्षादितत्. (4) K reads
पुनः. After this śloka we find नागशुद्धिः in the MS. M. (5) K
has वर्जितः, which is gram. erroneous. (6) K has ततस्त्रीगुणचेतस्त्रं,
which is partly inc. [शैव=वस्त्र.] (7) M reads भावितम्. (8) त्रि-
फलामूषवङ्घ्रिक्लात्, a variant in K. (9) K reads erroneously गृहकन्या.
(10) K reads निद्वारे, which has no clear sense. (11) K has
गुड़ा. M has गुड़. (12) K reads श्वेत. (13) K reads इष्टका.
M reads काक्षिकोषीभिः. (14) K has मर्दितं ततः. (15) K and
M read सृतं. (16) M reads चात्मभामात् प्रकारयेत्. (17) M reads
वासकेन. (18) K reads नाम्नमुपाधिजा. M reads नाम्नगुपाधिकाः.
20

१५४ रसार्णवे
सप्तवारं काकमाच्या गतदोषं¹ विमर्दयेत् ।
पातयेत्² सप्तवारं च गिरिदोषं त्यजेद्रसः³ ॥ ४९ ॥
क्षेत्रदोषं त्यजेद्देवि गोकर्णरसमूर्च्छितः ॥ ५० ॥
कार्पास⁴पत्रनिर्यासे खिन्नस्त्रिकटुकान्विते⁵ ।
सप्तकञ्चुक⁶निर्मुक्तः सप्ताहाज्जायते रसः ॥ ५१ ॥
काकमाची⁷ जया ब्राह्मी⁸ गाङ्गेरो⁹ रक्तचित्रकः¹⁰ ।
मण्डूकी¹¹ मुद्गपर्णी च शृङ्गवेरं रसाङ्कुशः¹² ॥ ५२ ॥
देवदाली¹³ शङ्खपुष्पी काकजङ्घा शतावरी ।
कुमारो भृङ्गराजश्च निर्गुण्डी ग्रीष्मसुन्दरः¹⁴ ॥ ५३ ॥
शूलिनो शूर्पपर्णी च¹⁵ गोजिह्वा चोर¹⁶कञ्चुकः ।
तद्रसैर्मर्दितः¹⁷ पात्यः¹⁸ सप्तधा निर्मलो भवेत् ॥ ५४ ॥
ताम्रेण¹⁹ पिष्टिकां कृत्वा पातयेदूर्ध्वपातने²⁰ ।

(1) K has गप्तदोषं, which has no clear sense. (2) M reads
पाचयेत्. (3) M reads व्यजेद्रसः. (4) K reads कर्पास. (5) K
reads चिकटुकान्वितः. खिन्नं खिकरकान्विते, a variant in M. (6) M
reads काञ्चुकि. (7) K reads काकमाचि. (8) M reads ब्रह्मी.
(9) K reads मार्जारी. (10) M reads रक्तचित्रकम्. (11) K reads
मण्डुका. M reads मण्डाको. (12) K has ससांकुशः. M has शृङ्गि वेर.
(13) देवताली is the reading in M. (14) ग्रीष्मसुन्दरम् is the variant
in M. (15) च is wanting in K. M reads शूर्पपाली च. (16) K
reads चिर, which is inc. (17) K reads सर्वतः. M reads मर्दितं,
which is gram. inc. (18) K reads पाल्यं. M reads पात्य. Both are
gram. inc. (19) K reads रामेण. रस.स. reads शुल्वेन. (20) K
reads उर्द्धपातने, which is an error of the scribe. But रस.स. reads ऊर्ध्वभाजने.

दशमः पटलः । १५५
वङ्गनागौ परित्यज्य शुद्धो भवति सूतकः ॥ ५५ ॥¹
मर्दितस्त्रिफलाशिग्रुराजिका³पटुचित्रकैः ।
ऊर्द्धभाण्डगतः पाच्यः प्रदीप्तैरुपलैरधः⁴ ॥ ५६ ॥
सृष्ट्याम्बुजनिरोधिन लब्धापायो भवेद्रसः ।
कर्कोटो⁵कञ्चुकाबिम्बो सर्पाख्यम्बुजसंयुतम् ॥ ५७ ॥
रसं नियामके दद्यात् तेजस्वी निर्मलो भवेत् ।
एवं विशोधितः सूतो भद्राष्टांशविशोषितः ॥ ५८ ॥⁶
क्षुद्राम्ललवणक्षार⁷-भूखगोषणशिग्रुभिः⁸ ।
राजिकाटङ्कणयुतैरारनाले⁹ दिनत्रयम् ।
स्वेदनाद्दीपतो देवि ग्रासार्थी¹⁰ जायते रसः ॥ ५९ ॥¹¹
व्योमसत्त्वादिवोजानि रसजारणशोधने¹² ।
तन्ममाचक्ष्व देवेशि¹³ किमन्यच्छ्रोतुमिच्छसि ॥ ६० ॥
(1) This hemistich closely agrees with रस.स. (vide Chap. XI. v.
31.) (2) M reads मर्दित, which is gram. inc. (3) M reads
रासका. (4) प्रदीप्तवरुपलैरध, a variant in M, which appears to be
inc. (5) M reads कर्कटो. [Vide रस.स. Chap. XI. vs. 41 and 42.]
(6) The ślokas 57 and 58 are not found in K. (7) चौद्र-
स्रलेवणक्षारः, a variant in M. (8) यूषगोषणशिग्रुभिः, a variant in K.
(9) K reads भारनालैः. (10) K reads ग्रासार्थि, which is gram. inc.
M reads ग्रासार्थी. (11) The 43rd śloka in रस.स. Chap. XI.
mostly agrees with the 59th śloka of this text. (12) रसे जारण-
शोधने, a variant in K. रसो जारय शोधिते, a variant in M. Both of these
readings do not convey a clear sense. (13) This charana is not
found in M.

१५६ रसार्णवे
इति श्रीपार्वतीपरमेश्वरसंवादे¹
रसार्णवे रससंहिताया
रसशोधनो नाम²
दशमः पटलः ॥१०॥
—
एकादशः पटलः ॥
❖
श्रीदेव्युवाच¹ ।
लक्षणं शोधनं चैव पारदस्य श्रुतं मया ।
चारणं जारणं चैव श्रोतुमिच्छामि भैरव ॥ १ ॥
श्रीभैरव उवाच² ।
सर्व्वपापक्षये जाते³ प्राप्यते रसजारणा⁴ ।
तत्प्राप्तौ प्राप्तमेव स्याद्विज्ञानं⁵ मुक्तिकारकम् ॥ २ ॥
मोक्षाभिव्यञ्जकं⁶ देवि जारणं साधकस्य तु ।
यावन्न जार्य्यते⁷ सूतः तावत्तु न च निर्वृतिः⁸ ॥ ३ ॥
(1) This is wanting in M. (2) K and M read रसशोधनं नाम.
—
(1) M has only देवी. (2) M has only भैरवः. (3) K
reads सर्व्वपापक्षयं तस्य. (4) K reads रसजारणात्. (5) M has.
विज्ञानां. (6) M reads मोक्षाभिव्यञ्जनं. (7) यावत् सुजीर्य्यते, a
variant in K. यावन्न जायते, a variant in M. (8) K has an in-
complete charana—तावन्न च तिष्ठति,.

एकादशः पटलः । १५७
खल्लस्तु पीठिका देवी रसेन्द्रो लिङ्गमुच्यते ।
मर्दनं वन्दनं² तस्य ग्रासः पूजा विधीयते ॥ ४ ॥
यावद्दिनानि वह्निस्यो जाय्यते धार्यते रसः ।
तावद्युगसहस्राणि शिवलोके महीयते ॥ ५ ॥
दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम् ।
द्रवान्ति तस्य पापानि कुर्व्वन्नपि न लिप्यते ॥ ६ ॥
जारणा द्विविधा बाल-जारणा बज्रजारणा' ।
तत्रादौ परमेशानि वक्ष्यते बालजारणा ॥ ७ ॥
गगनं जारयेदादौ सर्व्वसत्त्वमतः परम् ।
ततो माक्षिकशुद्धं च सुवर्णं तदनन्तरम् ॥ ८ ॥
गर्भस्थं द्रावयित्वा तु १० ततो वाह्यद्रुतिं द्रवेत् ।
(1) K reads खल्लं तु पिंठिका. M reads खल्लन्तु. (2) M has
चन्दनं, which is incorrect. (3) K reads पूजी, which is incorrect.
(4) M reads जारणा, which seems to be gram, inc. (5) M has
सिताशनम्, which has no clear sense. (6) Kreads बाला, M reads
विविधा बाल. (7) K reads जारणादभ्रगुपासना, which is unintelligible.
बज्रजारणा will be explained in the 13th Patala. (8) This hemistich
is not found in M. [Vide रस. स. Chap. VIII. vs. 65 and 66, which
state जारणा first as विरुपा, and next as विविधा.] (9) K has
माक्षिकाशुद्धे च. We do not find this charana and the next in M.
(10) गर्भं संद्रावयित्वा तु, a variant in K, which is gram. inc. (11) M
reads क्षययुतिं, which seems to be inc. [Vide रस.स. Chap. VIII. v. 72,
wherein वाह्यद्रुति is explained.]

१५८ रसार्णवे
सितं सितेन द्रव्येण रक्तं रक्तेन रञ्जयेत् ॥ ९ ॥
सारणं क्रामणं ज्ञात्वा ततो वेधं प्रयोजयेत् ॥ १० ॥¹
॥ चारणाजारणामन्त्रः ॥
ॐ नमोऽमृतलोहाय परामृततसोद्भवाय हुं स्वाहा ॥ ११ ॥
सर्व्वसत्त्वोपकाराय भगवन् त्वदनुज्ञया ।
जारणं कर्तुमिच्छामि ग्रासं गृह्ण² मम प्रभो ॥ १२ ॥
कुरुष्वेति शिवेनोक्तं ग्राह्यमेव³ सुबुद्धिना ॥ १३ ॥
शृणु देवि प्रवक्ष्यामि व्योमजारणमुत्तमम् ।
पत्राभ्र⁴जारणं सत्त्वजारणञ्चेति तद्विधा⁵ ॥ १४ ॥
निर्मुखं समुखं⁶ चैव बासनामुखमेव च ।
एकैकं त्रिविधं तच्च तद्वक्ष्याम्यानुपूर्व्वशः⁷ ॥ १५ ॥
वैक्रान्त⁸वज्रसंस्पर्शात्⁹ दिव्यौषधिबलेन वा ।
निर्मुखो भक्षयेद्देवि¹⁰ क्षणेन गगनं रसः¹¹ ॥ १६ ॥


(1) This hemistich is wanting in M. (2) K reads ग्राह्य. M
reads गृह्णां. Both the readings are gram. inc. [गृह्ण is generally used
by Rishis, though the correct form is गृहाण.] (3) भावमेव सुबुद्धिमान्,
a variant in K. वाह्यमेव, a variant in M. (4) M reads पत्राभ्रू,
which appears to be incorrect. (5) K reads erroneously तद्दिधा.
(6) K has निमुख. M has सम्मुखं. रस. स. reads—"समुखा निर्मुखा चेति जारणा
द्विविधा पुनः ॥" "इयं हि सम्मुखा प्रोक्ता जारणा मृगचारिणा ॥" (Chap. VIII, vs.
66 and 69.) (7) K and M read तद्वक्ष्याम्यनुपूर्व्वशः. (8) M
reads बैक्रान्तं, which is inc. (9) K and M read संस्पर्श (without any
suffix), which seems to be inc. (10) लघयेद्देवि, a reading in K.
(11) M reads रसम्, which is gram. erroneous.

एकादशः पटलः । १५६
हेमकर्मणि हेमैव तारे तारो मुखं¹ भवेत् ॥ १७ ॥
तप्तखल्लकृता पिष्टिः² सूक्ष्म³मल्पल्पमभ्रकम् ।
अम्लवेतस⁴जम्बीरवोजपूराम्लभूखगैः⁵ ।
मर्दितं⁶ चरते देवि सेयं संमुखजारणा⁷ ॥ १८ ॥
क्षारत्रयं⁸ पञ्चपटु⁹ काचो¹⁰-कासीसगन्धकम् ।
माक्षिकं चाम्लसंयुक्तं ताम्रपात्रे तु जारयेत्¹¹ ॥ १९ ॥
एतन्नाभिषवाद्¹²दिव्यं कारयित्वा विचक्षणः ।
जारणार्थञ्च बीजानां¹³ वज्राणाञ्च विशेषतः ॥ २० ॥
तन्मिश्रावर्त्तितं नागं वङ्गं¹⁴ वा सुरवन्दिते ।
निषेचयेच्छतं वारं न रसायनकर्मणि ॥ २१ ॥
अनेन सकलं देवि¹⁵ चारणावस्तु भावयेत्¹⁶ ।
क्षाराम्ले¹⁷ भावितं व्योम रजसा प्रथमेन च ॥ २२ ॥


(1) रस.स. defines मुख thus :—“मुखं स्वर्णं च रूप्यं च बीजमित्यभिधीयते ॥ ६० ॥
चतुःषष्टांशतो बीजप्रक्षेपो मुखमुच्यते । ५८ ।” (Chap. VIII.) (2) तत्र खल्ले
कृतापिष्ट, a variant in K. M reads कृताविष्टि. (3) K reads सूक्ष्म.
(4) M reads चाम्लवेतस. (5) K has बीजपूजास्मभूषगै, which is
gram. inc. (6) M reads मृदित. (7) K has जारणात्. M has
सम्मुखजारणा. (8) K reads क्षारद्वयं. (9) K reads पञ्चलवण. M
reads पञ्चवटुः, which seems to be incorrect. (10) K has कांजि.
M has काचि. (11) K reads सारयेत्. (12) एतन्नामिषय, a
variant in K. (13) जारणार्थे तु बीजानि, a variant in K. (14) M
reads वङ्गं. (15) अनेन स चारणां यस्तु, a variant in K. (16) भावये
शङ्खिचूर्णतः, a variant in K. (17) K reads क्षाराम्ब.

१६० रसार्णवे
सृष्टिमयोदककणा¹ तुम्बुरुद्रवमर्दितम्² ।
खरेज्जरेद्वा पुटितं³ यवचिञ्चारसेन च ॥ २३ ॥
शतावरी गदा रम्भा मेघनादा पुनर्नवा ।
शिग्रुको यवचिञ्चा च भावितं तद्रसैः क्रमात् ॥ २४ ॥
मूलं हिलमुचायास्तु⁴ कौवेरीमूलमेव च ।
कदलीमुसलीशिग्रु-ताम्बूलीबाणपोलुकम्⁵ ॥ २५ ॥
अलम्बुषा बला कोल मास्फोटः खरमञ्जरी ।⁶
तुम्बुरुस्तिलवाकं वाप्येषामेकरसेन तु ।
राजिकाव्योषयुक्तेन त्रिदिनं स्विन्नमभ्रकम् ॥ २६ ॥
काणौसतुवरौसिन्धु⁷-टङ्कणक्षारसंयुतः⁸ ।
पूर्वाभिषव⁹योगेन सूतकञ्चरति क्षणात् ॥ २७ ॥
मोलको¹⁰ भवति क्षिप्रं सर्व्वसिद्धिप्रदायकः¹¹ ॥ २८ ॥
गृहीत्वा देवि धान्याम्ल-मम्लवर्गेण¹² संयुक्तम् ।


(1) K reads सृष्टो. M reads सष्ट. Both the readings are incorrect.
(2) M reads तुम्बुरुद्रसमर्दितम्. (3) याजयेद्दी पटौ चैक, a variant in K,
which seems to be unconnected with the text. (4) K reads
erroneously हितमुचायासु. (5) K has बाणपौलुका. (6) This
hemistich and the next two are not found in K. (7) K reads
कौम्रोसतुवरौसौंधू, which is inc. (8) K has संयुतं, which is gram. inc.
M has टङ्कणं क्षारसंयुतः, which is partly inc. (9) K reads पूर्वाभिषया,
which is inc. (10) K has गोलकं. (11) सर्व्वसिद्धिप्रदायकं, a
variant in K. M reads प्रदायकम्, which is gram. inc. (12) अम्म्रवर्गेण
is the reading in K, which is not correct.

ऐकादशः पटलः । १६१
क्वाथयित्वाभ्रकं तन्तु¹ स्नुहीक्षीरेण² मर्दयेत् ॥ २९ ॥
आरख्य³गोमयेनैव कपोताख्यं पुटं⁴ ततः ॥ ३० ॥
कदलीकन्दनिर्यासै⁵र्मूलकन्दरसेन च।
काकमाची च मोनाक्षी अपामार्गो मुनिस्तथा⁶ ॥ ३१ ॥
एरण्डमार्द्रकञ्चैव⁷ मेघनादा⁸ पुनर्नवा ।
एकैकस्य द्रवैरेव⁹ पुटकैकं प्रदापयेत्¹⁰ ॥ ३२ ॥
वज्रीक्षीरेण संयुक्तं दोलायन्त्रेण¹¹ पाचयेत् ।
छायाशुष्कं ततः कृत्वा चणकाम्लेन संयुतम्¹² ॥ ३३ ॥
नवसारं च काशोसं वचा¹³ निम्बं तथैव च ।
अभ्रस्य¹⁴ षोडशांशेन एकैकं तत्र¹⁵ निक्षिपेत् ॥ ३४ ॥
निधाय¹⁶ ताम्रपात्रे तु घर्षयेत्तच्च¹⁷ सुव्रते ।
नववारं¹८ ततो देवि लोहपात्रे तु जारयेत् ॥ ३५ ॥
रसेन सह देवेशि चणकाम्लेन काञ्जिकम् ।
(1) K reads काययित्वा भृशं तं तु. (2) M reads सुहिछीरेण.
(3) M reads अरण्य. (4) M reads कपोताखापुट. (5) M has
निर्यास. (6) K reads अपामार्गमुनौ तथा. (7) K reads
मार्दकथैव. (8) M reads मेघनाद. (9) एकैकरमद्रवेकेण, a variant in
K (10) K has पुटकैक. M has सुदापयेत्. (11) M reads
डीलायन्त्रेण. (12) K reads भैरवि (13) M reads वशा.
(14) K reads अभ्रकात्. (15) M reads तत्तु. (16) M reads
विडारो, which is unintelligible. (17) प्रर्षतं य च, a variant in K,
which has no sense. M reads घर्षयतश्च. (18) K has निव्वारी,
which is absurd.
21

१६२ रसार्णवे
मृदग्निना तु निःक्वाथ्यं प्रहरार्द्धेन जायते ॥ ३६ ॥
सोमवल्लोरसेः पिष्ट्वा व्योम सौवर्चलान्वितम् ।
शनैः शनैर्हंसपाद्या$^1$ दापयेच्च पुटत्रयम् ॥ ३७ ॥
सोमवल्लोरसेनेव सप्तवारञ्च दापयेत्$^2$ ।
पातयेन्मृन्मये भाण्डे$^3$ रसेन सह संयुक्तम् ॥ ३८ ॥
मूलं वल्लोपुपुङ्खाया$^4$ गव्यक्षीरेण घर्षयेत्$^5$ ।
कल्केन लेपयेत् सूतं गगनञ्च तदूर्द्धगम्$^6$ ॥ ३६ ॥
तापयेद्द्वितापेन निर्मुखं ग्रसते क्षणात् ।
जायते पिष्टिका शीघ्रं नात्र कार्या विचारणा ॥ ४० ॥
तिलपर्णीरसेनेव गगनं भावयेत् प्रिये$^7$ ।
मर्दनाज्जायते पिष्टी$^8$ नात्र कार्या विचारणा ॥ ४१ ॥
मुण्डीनिर्यांसके नागं$^9$ बहुशस्तु निषेचयेत् ।$^{10}$
तेनाभ्रकं तु संप्लाव्य$^{11}$ भूयोभूयः पुटे दहेत् ॥ ४२ ॥


(1) The portion commencing from रसेन सह and ending in हंस
पाद्या is not found in M. (2) K reads तापयेत्. (3) दापये-
न्मृन्मये पात्रे, a variant in K. (4) K has शितेषुपुंखाया. (5) गो-
क्षीरे सह पेषयेत्, a variant in K, which is gram. inc. (6) K reads
गगनं तदधोर्द्धग. (7) गगनं तेन भावयेत्, a reading in K. (8) M
reads पिष्टिः. (9) K reads नापि. (10) After this charana
we find in K the following hemistich :—कल्केन लेपयेत् सूतं गगनं तदधोर्ध्वंगं
which we have not adopted, seeing it to be the repetition of the
latter half of the 39th śloka. (11) K reads संभाव्य.

एकादशः पटलः । १६३
चित्रकार्द्रकमूलाना¹मेकैकेन तु सप्तधा ।
प्लावितव्यं² प्रयत्नेन गन्धकाभ्रकचूर्णकम् ॥ ४३ ॥
मागमुण्डीरसस्तन्य³रजो⁴लुङ्गाम्लभावितम् ।
षोडशांशेन तद्दत्तं दोलायां⁵ तु चरेद्रसः ॥ ४४ ॥
चतुःषष्टि⁶गुणं देवि द्वात्रिंशद्गुणमेव वा⁷ ।
अथवा षोडशगुणं तथाष्टगुणमेव वा⁸ ।
चतुर्गुणं वा⁹ द्विगुणं समं वा चारयेत्¹⁰ प्रिये ॥ ४५ ॥
परमभ्रकसत्त्वस्य¹¹ जारणं शृणु पार्वति ॥ ४६ ॥
व्योमसत्त्वं समांशेन ताप्यसत्त्वेन संयुतम्¹² ।
स खल्वेवं¹³ चरेद्देवि गर्भद्रावो¹⁴ भवेद्रसः ॥ ४७ ॥
नागाभ्रं देवि वङ्गाभ्रं¹⁵ तीक्ष्णाभ्रं¹⁶ करकाभ्रकम्¹⁷ ।
ताराभ्रं देवि¹⁸ हेमाभ्रं¹⁹ रसगर्भेण²⁰ जारयेत् ॥ ४८ ॥


(1) K reads मूलानि.
(2) All the texts have this reading, which is gram. erroneous, the correct form being प्लावयितव्यं.
(3) K reads नागं मुण्डीरसस्तन्य.
(4) K reads रसं लुङ्गाम्लभावितम्.
(5) M reads डोलायां.
(6) K reads चतुषष्टि, which is inc.
(7) K reads च.
(8) K and M read च, which is not accurate.
(9) M reads च.
(10) K has सम मारयते.
(11) K reads पत्रस्य.
(12) K reads erroneously पुंसक्तं.
(13) K has संकल्वेन.
(14) K reads गर्भद्रावि. M reads गर्भद्रावं. Both the readings are gram. incorrect.
(15) M reads वङ्गाभं.
(16) K reads तिक्ताभ्रं.
(17) K reads भास्कराभ्रकम्.
(18) K reads तु, which mars the metre.
(19) M reads शुल्बाभ्रं.
(20) K reads रसगर्भे, thus wanting one letter.

१६४ रसार्णवे

पूर्व्वाभिषेक¹योगेन गर्भे द्रवति मर्दनात् ॥ ४९ ॥
चतुःषष्ट्यंशकः पूर्व्वः² द्वात्रिंशांशो द्वितीयकः³ ।
तृतीयः षोड़शांशस्तु⁴ चतुर्थोऽष्टांश एव च⁵ ॥ ५० ॥
पञ्चमस्तु चतुर्थांशः⁶ षष्ठो ह्यंशः प्रकीर्त्तितः⁷ ।
ग्रासो रसस्य दातव्यः⁸ ससत्त्वस्याभ्रकस्य च⁹ ॥ ५१ ॥
चतुःषष्ट्यंशके¹⁰ ग्रासे दण्डधारी भवेद्रसः ।
जलौकावद्वितीये च¹¹ ग्रासयोगे सुरेश्वरि ॥ ५२ ॥
ग्रासेन तु तृतीयेन¹² काकविष्ठासमो भवेत्¹³ ।
ग्रासेन तु चतुर्थेन दधिमण्डसमो भवेत् ॥ ५३ ॥
पञ्चमे चारिते ग्रासे नवनीतसमो¹⁴ भवेत् ।
षष्ठे तु गोलकाकारः¹⁵ क्रमाज्जीर्णस्य लक्षणम् ॥ ५४ ॥
काञ्जिकेन निषिक्तेन रक्तव्योम शतप्लुतम्¹⁶ ।


(1) K reads पूर्व्वाभिर्शक, which is incorrect.
(2) चतुषष्टांशक पूर्व्वा, an incorrect variant in K.
(3) द्वात्रिंशांश द्वितीयक, a variant in K.
(4) तृतीय षोडशांशेन, a variant in K.
(5) चतुर्थाष्टांशमेव च, a variant in K, which is inc.
(6) पञ्चमोपि चतुर्थांशो, a variant in K.
(7) षष्ठो डिग्भागप्रकीर्त्तितः, a variant in M.
(8) K reads ग्रासा रसस्य दातव्याः. M reads ग्रासो रसस्य दातव्य, wherein the last term is inc.
(9) K has सत्वस्याभ्रकजस्य वा.
(10) K reads चतुषष्टाशतो. M reads चतुष्षष्टाशता. Both are inc.
(11) जलूकवद्वितीये तु, a variant in M.
(12) M reads तृतीयस्य.
(13) येन काकविष्ठा. भवेत्, a variant in M.
(14) K reads नवनीतः समो, which is not correct.
(15) K reads गोलकाकारं.
(16) K reads रत्ने व्योमम, which is inc. तेन व्योम is the reading in M.

एकादशः पटलः। १५५
खल्लात्सञ्चारयेत्तञ्च^१ शुल्बवासनया^२ सह ॥ ५५ ॥
हेम तारञ्च संधृष्य^३ खल्ले तत्र रसं न्यसेत्^४ ।
काक्षोसहितकाग्रोस्रं^५ सिन्धुना चरते रसः ॥ ५६ ॥
हेम सोस्रन्तु संधृष्य^६ रसं तत्र प्रदापयेत् ।
बागहेमयुतं व्योम समजौर्णं द्रुतं^७ भवेत् ।
अभ्रकोपरसान्^८ क्षिप्रं सुखेनैव चरत्ययम् ॥ ५७ ॥
तारं वङ्गं च संधृष्य^९ रसं तत्र प्रदापयेत् ।
नागहेमयुतं व्योम समजीर्णं द्रुतं भवेत् ।^१०
मुखेन चरते व्योम तारकञ्चापि शस्यते^११ ॥ ५८ ॥
समुखं निर्मुखं^१२ वापि यत्नत्स्रारयेन्नभः^१३ ॥ ५६ ॥
चारणां त्रिविधामेवं^१४ कृत्वा गर्भद्रुतिं रसे।
क्षारयेत् स्वेदयेत् पिण्डं^१५ परिणामक्रमैस्त्रिभिः^१६ ॥ ६० ॥
कट्वम्ल^१७ क्षारगोमूत्र-सुहोक्षौरैः प्रलेपितम्^१८ ।


(1) खल्ले तु चालयेत्तच्च, a variant in K. (2) K reads शुल्ब वासनया.
M reads वासनाया, which is inc. (3) K reads संस्थाप्य. (4) खल्ले
तत्र च संन्यसेत्, a variant in K. (5) कांचीसहितकाश्रोस्र, a variant in M.
(6) K reads संगृह्य. (7) M has समजीर्णद्रुत (8) M reads
पध्रकांत्यवसान्. (9) K reads सङ्गृह्य. M reads संधृष्य. (10) This
hemistich is not found in K. (11) K reads समुख. (12) निर्मुखं
समुख is the reading in K. समुख निर्मुख is the reading in M. (13) K
reads ततः, which is not accurate. (14) M reads जारणां त्रिविधामेव.
(15) K reads incompletely—जारयेत् पिण्डे. (16) M reads in-
completely—परिकर्मैस्त्रिभिः. (17) M reads पट्वम्ल. (18) सुहि-
चौरे प्रलेपिते, a variant in M.

१६६ रसार्णवे
वह्निष्ट बन्धं वस्त्रेण¹ भूयो ग्रासं निवेदितम्² ।
क्षारारनालतैलेषु स्वेदयेन्मृदुनाग्निना ॥ ६१ ॥
क्रमेणानेन देवेशि जायते दिवसैस्त्रिभिः³ ।
यन्त्रादुद्धृतमात्रं तु⁴ लोहपात्रे स्थितं रसम्⁵ ॥ ६२ ॥
साम्लेन⁶ काञ्जिकेनादौ क्षालितं वस्त्रगालितम् ।
पात्रे सुखोष्ण⁷हस्तेन यावत् शेषं विमर्दयेत् ॥ ६३ ॥
चतुर्गुणेन वस्त्रेण पीडितो निर्मलश्च सः⁸ ॥ ६४ ॥
गालनक्रियया ग्रासे सति निष्पेषनिर्गते⁹ ।
स¹⁰ भवेद्दण्डधारो च जीर्णग्रासस्तथा रसः¹¹ ॥ ६५ ॥
अजीर्णे पाचयेत् पिष्टीं¹² स्वेदयेन्मर्दयेत्तथा ।
वासवाम्ल¹³प्रयोगेण जीर्णे ग्रासं तु दापयेत्¹⁴ ॥ ६६ ॥
इष्टिकागुड़दुग्धोर्णी¹⁵-राजोसै

एकादशः पटलः । १५७
षोडशांशैः स धान्याम्लैः$^१$ मर्द्यः स्वेद्यश्च पारदः$^२$ ॥ ६७ ॥
निश्चिलीकरणार्थं तु$^३$ ग्रासे ग्रासे$^४$ पुनः पुनः ।
जीर्णाभ्रो जीर्णवीजोऽपि रागान् गृह्णाति$^५$ निर्मलः ॥ ६८ ॥
क्रमेणानेन दोलायां$^६$ चार्य्यं$^७$ ग्रासचतुष्टयम् ।
ततः कच्छपयन्त्रेण ज्वालनं बन्धनं$^८$ क्रमात् ॥ ६६ ॥
षड्भागं चाष्टमांशेन विडं दत्त्वापि जारयेत्$^९$ ।
समजीर्णाभ्रकः सूतः शतवेधी$^{१०}$ भवेत् प्रिये ॥ ७० ॥
सहस्रवेधी द्विगुणे त्रिगुणेऽयुतवेधकः ।
चतुर्गुणे लक्षवेधी स भवेद्भूमचरी रसः ॥ ७१ ॥
जीर्णे पञ्चगुणे$^{११}$ देवि बद्धायुर्जायते रसः$^{१२}$ ।
आयुस्तु$^{१३}$ षड्गुणे$^{१४}$

१६८ रसार्णवे
जीर्णेन नाशमायान्ति¹ नात्र कार्या विचारणा ॥ ७३ ॥
रसराजे² यदा जीर्णे³ षड्गुणं गगनं⁴ प्रिये ।
तदा⁵ ग्रसति लोहानि त्यजेच्च मतिमात्मनः⁶ ॥ ७४ ॥
धूमश्चिटिचिटिश्चैव⁷ मण्डकम्पुतिरेव च⁸ ।
सकम्पश्च विकम्पश्च⁹ यच्चावस्था रसस्य तु ॥ ७५ ॥
कपिलोऽथ निरुद्गारि¹⁰-विप्लुषश्चैव मुञ्चति¹¹ ।
अग्नौ तिष्ठति¹² निष्कम्पो व्योमजीर्णस्य लक्षणम् ॥ ७६ ॥
समजीर्णो भवेद्बालो¹³ यौवनस्थ¹⁴श्चतुर्गुणम् ।
वृद्धस्तु षड्गुणं जीर्णः¹⁵ कुर्य्यात्¹⁶ कर्म पृथक् पृथक् ॥७७॥
(1) K has जीर्णे जीर्णे समायाति. M has जीर्णेन नाशका यान्ति. The
sense of these readings is not clear. (2) B reads रसराजो.
(3) K reads जीर्ण. M reads यथा जीर्ण. (4) M has गगन षडगुणं.
(5) B has यदा, which is inc. (6) Both B and K read मतिमात्मनः,
which has no clear sense. (7) ध्म विद्धि चिटिट्यैव, a variant in K.
(8) मेण्डुक्युतिरेव च, a variant in B. K has मण्डुक्युतिमेव च. Both the
readings seem to be inc. (9) K reads सकप च विकप च. (10) M
reads कपिलोत्यनिरुद्गानि. (11) B reads विप्लुषैव In K, the whole
hemistich seems to be incorrect, which is as follows---कपिलं.त्यनिरिपुप्ति-
मेव चव र्धैव मुञ्चति (12) K reads तिष्ठात, which is gram. incorrect.
(13) समोवर्णो वर्षदृब्बालो, an incorrect variant in K. (14) B reads
यौवनर्थ, which has no sense. K reads यौवनस्य (without विसर्ग), which
is gram. inc. (15) B has वृद्ध षड्गुणजीर्णस्तु. K has वृद्धः षड्गुण-
जीर्णस्तु. M has वृद्धस्तु षड्गुणो जीर्णे. We have adopted the above reading
after collating all the texts. (16) Both B and K read तदा.

एकादशः पटलः । १६८
बालस्तु पत्रलेपेन कल्कयोगेन यौवनः¹ ।
वृद्धो² विध्यति लोहानि जारितः सारितोऽथवा ॥ ७८ ॥
कुमारस्तु रसो देवि न समर्थो रसायने ।
यौवनस्थो रसो³ देवि क्षमो देहस्य रक्षणे ॥ ७९ ॥
जरावस्थो रसो यश्च देहे लोहेन संक्रमेत्⁴ ।
अभावेऽभ्रकसत्त्वस्य⁵ कान्तसत्त्वं प्रदापयेत् ॥ ८० ॥
कान्तस्य चाप्यभावे⁶ तु तीक्ष्णलोहन्तु दापयेत् ।
अनेन क्रमयोगेन सर्व्वसत्त्वानि जारयेत्⁷ ॥ ८१ ॥
एकोऽपि हेमसंयुक्तश्चामीकरकरः क्षणात् ।
गन्धकात् परतो नास्ति रसेषूपरसेषु वा⁸ ॥ ८२ ॥
पूर्व्वोक्तयन्त्रयोगेन⁹ द्विषड्गुणगन्धकम्¹⁰ ।
अथवा द्वादशगुणं षड्गुणं¹¹ वापि जारयेत्¹² ॥ ८३ ॥
माक्षिकं¹³ सत्त्वमादाय पादांशेन तु¹⁴ जारयेत् ।
ततोऽपि सर्व्वसत्त्वानि द्रावयेत् सूतगर्भतः ॥ ८४ ॥


(1) M reads यौवनः, which is incorrect. [Here अर्चादित्वात् अण्.]
(2) K reads वृद्धौ, which is incorrect. (3) K reads यौवनस्थोरसो.
(4) K reads संक्रमे, which is an error of the scribe. M reads देहलाहथ.
(5) अभावे अभ्रसंसत्त्वस्य, a reading in M. (6) K reads वाप्यभावे.
(7) M reads रञ्जयेत्. (8) K reads च. From this hemistich,
some portion is wanting in B. (9) M has पूर्वोक्तयागयन्त्रे ण.
(10) K reads द्विषड्गुं गन्धकं, which is incomplete. (11) K has
षट्गुणं (12) M has वा विजारयेत्. (13) M reads माक्षिक।
(14) तु is wanting in K.
22

१७० रसार्णवे
हेमपावकयोः सख्यं तथा¹ काञ्चनसूतयोः ।
वह्निसूतकयोर्वैरं तयोर्मित्रेण मित्रता² ॥ ८५ ॥
अग्निको³ यवचिञ्चा च स्त्रष्टुम्भटश्च रागिणी⁴ ।
दोलास्वेदेन⁵ तत् पक्वं हेमजारणमुत्तमम् ॥ ८६ ॥
पलाशभस्मापामार्गो⁶ यवक्षारश्च काञ्चिकम्⁷ ।
सौवर्चलं च कासीसं⁸ सामुद्रं सैन्धवं तथा ॥ ८७ ॥
आसुरी टङ्कणञ्चैव⁹ नवसार¹⁰स्तथैव च ।
कर्पूरञ्चैव माक्षीकं¹¹ समभागानि कारयेत् ॥ ८८ ॥
सुह्यर्कदुग्धैर्देवेत्रि¹² मूषा¹³लेपन्तु कारयेत् ।
विड्चूर्णं ततो दत्त्वा कनकं जारयेत् प्रिये ॥ ८९ ॥
शृणु देवि प्रवक्ष्यामि भूचराख्यान्तु¹⁴ जारणम् ॥ ९० ॥
(1) M reads सूत, which creates a tautology. (2) तयोर्मिश्रेण
मित्रता, a variant in M. (3) K reads चंकोलं. (4) K reads
incompletely—सुमटेन नाकिनी. The meaning of स्त्रष्टुम्भट is unintelligible.
(5) M reads डौलास्वेदेन. (6) K reads पमार्गे, which seems to be
incorrect. (7) M reads काञ्चिकम्. (8) K reads कौशीसं,
which is an error of the scribe. M reads काशीसं. (9) K has
आ......री टङ्कणं चैव, which is incomplete. (10) M reads नागसार.
(11) कर्पूर चैव माक्षिकं, a variant in K. (12) K reads सुह्यर्कदुग्ध-
दैवेत्रि, which appears to be inc. M reads सुह्यर्कदुग्ध, which is not also
accurate here. (13) K reads मूखा, which is inc. (14) K
has भूचराख्यान्तु. M has भूजेराख्यान्तु. Both seem to be inc. ; since we see
afterwards (in śloka 98) भूचरी जारणा and not भूचरो or भूजंरी जारणा.

एकादशः पटलः । १७१
कृष्णं पीतं¹ तथा रक्तं² शुल्बे तीक्ष्णे च मेलयेत् ॥ ८१ ॥
शुल्बे तीक्ष्णं यदा चूर्णं³ द्वाविंशतिगुणं प्रिये⁴ ।
गन्धनागं ततोऽर्द्धं तु⁵ क्रमेणैव तु मेलयेत् ॥ ८२ ॥
हेम्ना तु सह दातव्यं सूतकैकेन षोडश⁶ ।
गन्धनागं यदा जीर्णं⁷ तदा⁸ बद्धो⁹ भवेद्रसः ।
हेम्नि जीर्णे ततोऽर्द्धेन¹⁰ मृत¹¹लोहेन रञ्जयेत् ॥ ८३ ॥
गन्धकेन हतं शुल्बं¹² माक्षिकं दरदायसम् ।
पुटेन मारयेच्छुद्धं हेम दद्यात् तु षड्गुणम्¹³ ॥ ८४ ॥
सूतके हेमबीजं च यदा जीर्णं¹⁴ चतुर्गुणम् ।
वज्ररागं विजानीयात् हेमाभो जायते रसः ॥ ८५ ॥
सारणायन्त्रमध्यस्थं तेनैव सह सारयेत्¹⁵ ।
त्रिभाग¹⁶सारितं कृत्वा पुनस्तनैव¹⁷ जारयेत् ॥ ८६ ॥
(1) K reads कृष्णपीतं. (2) M reads रक्ताग्भं. (3) एवं
यदा भवेज्जीर्णं, a variant in K ; after this, one charaṇa is wanting in it.
(4) K reads द्वाविंशतिगुणं चैव न सारणयैव च, which is incomplete.
(5) M reads ततोध्ये तु, which is unintelligible. (6) सूतके चैव षोडशं,
a reading in K. (7) M reads यथा चूर्णं. (8) M reads तथा.
(9) K reads भद्रो, which seems to be incorrect. (10) K has an
incomplete charaṇa—हेमजीर्णे ता...न. (11) M has मृता, which is
inc. (12) K reads सूल्वं. (13) हेम दद्यात् षड्गुणं, an incom-
plete variant in K. (14) K reads यदार्धं, which is an error of the
scribe. M reads यथा जीर्णं. (15) M reads कारयेत्. (16) M
reads त्रिभागं. (17) K reads पुनस्तेनेव.