रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 326, कुल 558 में से
संदर्भ में पढ़ें) चतुर्दशः पटलः । १०१
एकत्र मर्दयेत् खल्ले¹ चोषधी²द्रवसंयुतम् ॥ ११५ ॥
मारयेद्भूधरे यन्त्रे पुटानां सप्तकेन तु ।
तत् सर्व्वं जायते भस्म वज्रस्यैव³ प्रभावतः ॥ ११६ ॥⁴
सामुद्रं त्रिफलं⁵ देवि भस्ममध्ये⁶ प्रदापयेत् ।
एकोलत्याथ⁷ संमर्द्य वज्रोचीरै⁸ दिनत्रयम् ॥ ११७ ॥
विश्वामित्रकपालस्थं पुटं दद्यात्तु भूधरे ।
तत् सर्व्वं जायते भस्म शङ्ककुन्देन्दुसन्निभम्⁹ ॥ ११८ ॥
तेनैव यवमात्रेण वङ्गं स्तम्भयति¹⁰ क्षणात् ।
―
(1) M reads मद्दे. (2) M reads उष्णौ, which is incorrect.
(3) M has वज्रस्येव, which is incorrect. (4) After this we
find the following ślokas in K only—
भस्मसूतपलेकं च नागभस्मपलद्वयं ।
सत्वचूर्णं पलेकं तु त्रयमेकत्र कारयेत् ।
मर्दयेन्मातुलुङ्गाम्बैर्गोलको भवति क्षणात् ।
मृतवज्रस्य भागेकं भागचत्वारि गोलकं ।
एकत्र मर्दयेत् खल्ले चौषधीद्रवसंयुतं ।
मारयेद्भूधरे यंत्रे पुटानां सप्तकेन तु ।
तत् सर्वं जायते भस्म वज्रस्येव प्रभावतः ।
(5) B reads सामुद्रं, which appears to be incorrect. K reads त्रिफलां.
(6) M reads भस्ममध्ये, which is incorrect. (7) K has एकोहलाथ,
M has एकोह्लाला तु; Both are grammatically incorrect. (8) M
reads वज्रोचीर, which is incorrect. (9) K has an incomplete
charaṇa—कुन्देन्दुसन्निभं. (10) वंगस्तं भवति is the reading in K. which
seems to be incorrect. M reads बहुं instead of वङ्गं.