सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 327, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 327

३०४ रसार्णवे
वङ्गं तारं¹ तथा सत्वं समसूतेन गोलकम् ॥ ११९ ॥
अनेन क्रमयोगेण मारयेच्च पृथक् पृथक्² ।
तत् सर्व्वं जायते भस्म वज्रस्यैव³ प्रभावतः ॥ १२० ॥
भस्मसूतपलैकं च⁴ वङ्ग⁵भस्मपलद्वयम् ।
द्वे पले⁶ मृततारस्य सत्वभस्मपलद्वयम्⁷ ॥ १२१ ॥
शङ्खचूर्णपलं पञ्च⁸ सामुद्रस्य पलाष्टकम् ।
टङ्कणस्य पलान्यष्टौ⁹ सर्व्वमेकत्र मर्दयेत् ॥ १२२ ॥
वज्रीक्षीरेण संपेष्य पुटं दद्याच्चतुर्दश¹⁰ ।
एष सिद्धरसः¹¹ साक्षात् दुर्लभस्सिद्धगैरपि¹² ॥ १२३ ॥
वज्रं तु द्रावयेत् पश्चात्¹³ भाण्डे चैव तु मूक्ष्मये¹⁴ ।
सिद्धं भस्म भवेल्लोहं¹⁵शलाकेन च चालयेत्¹⁶ ॥ १२४ ॥
(1) M reads वङ्गस्तार. (2) M reads erroneously पृथक् पृथक्.
(3) D reads चन्द्रस्यैव. K reads चंद्रस्यैव. (4) D has भस्मसूतं पलैकञ्च.
(5) K wants this charaṇa. M reads वङ्ग. (6) K reads द्विपलं.
(7) This hemistich is not found in D. (8) शङ्खचूर्णपलैकञ्च, a vari-
ant in M. (9). B reads पलान्यष्ट. (10) पुटा मुखा चतुर्दश,
a variant in D पुटं दत्वा चतुर्दश, a variant in K. पुटं दद्यात्तथा दश, a
variant in M. (11) B reads सिद्धिरसः. (12) दुर्लभस्सिदशेरपि,
a variant in M. (13) D has वज्रं सुद्रावयित्वापि, which is gramma-
tically incorrect. M has an incomplete charana--वज्रन्द्रावयेत् पश्चात्.
(14) भाण्डोदे चैव तु सम्यये, an incorrect reading in D. M reads भाण्डेनैव
तु मूष्मणे, which is incorrect. (15) सिद्धभस्म भवेल्लोह, a reading in
B and M. सिद्धं भस्मायसे लोहं, a reading in D. (16) M has तालकेन
तु चालयेत्.