सामग्री पर जाएँ
सर्वकोश
रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)

Rasarnava: Tantric Chemistry and Alchemy with Commentary

शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा

DevanagariHindipublished558 पृष्ठ

पृष्ठ 325, कुल 558 में से

संदर्भ में पढ़ें
पृष्ठ 325

रसार्णवे
अन्धमूषागतं¹ ध्मातं खोटो भवति तत्क्षणात्² ॥ १०८ ॥
पलैकं खोटचूर्णस्य³ पलैकं द्रुतसूतकम्⁴ ।
मर्दयेन्मातुलुङ्गाम्लैः⁵ गोलको भवति क्षणात्⁶ ॥ १०९ ॥
षोडशांशेन तेनैव शुल्कवेधं⁷ प्रदापयेत् ।
वङ्गस्थाने ददेद्वङ्गं⁸ तारस्थाने तु⁹ काञ्चनम् ॥ ११० ॥
पूर्ववत् क्रमयोगेण¹⁰ रसं खोटन्तु¹¹ कारयेत् ।
तं खोटं सूक्ष्मचूर्णं तु द्रुतसूतेन¹² गोलकम् ॥ १११ ॥
षोडशांशेन तेनैव तारारिष्टं तु वेधयेत् ॥ ११२ ॥
मृतवङ्गपलैकं तु पलैकं सूतकस्य च¹³ ।
सत्त्वचूर्णपलैकं तु त्रयमेकत मेलयेत्¹⁴ ॥ ११३ ॥
मर्दयेन्मातुलुङ्गाम्लैः गोलको भवति क्षणात्¹⁵ ॥ ११४ ॥
मृतवङ्गस्य भागैकं भागांश्चत्वारि¹⁶ गोलकम् ।
(1) K reads अंधमूषागत, which is incorrect. (2) खोटो भवति
तत्क्षणात्, a variant in M. (3) M has बोटचूर्णस्य. (4) B reads
द्रुतसूतकं. D and K read मृतसूतकम्. (5) M reads erroneously
मातुलुङ्गाभं. (6) खोटो भवति तत्क्षणात्, a variant in M. (7) D
has शुल्क वेधं. K has शु ल्वे वेधं (8) D has दद्देवांगं. M has वङ्गस्थाने.
(9) D has कु, which is an error of the scribe. (10) Both D and
M read पूर्वकर्मप्रयोगेन. (11) D reads रसखोटं. M reads रसखोटन्.
(12) Both D and K have मृतसूतेन. (13) D reads पलैक सूतगोलकं.
K has पलैकं कुंदेदुर्मनिभं, which seems to be absurd. (14) This
hemistich and the next twelve are not found in D. M reads योजयेत्.
(15) M has गोलो भवति तत्क्षणात्, wherein the last term is incorrect.
(16) M reads भागयत्त्वारि.