रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
पृष्ठ 314, कुल 558 में से
संदर्भ में पढ़ेंचतुर्थः पटलः । २६१
लाङ्गली जीवकश्चैव¹ मुस्तायुक्तेन्द्रवारुणी² ।
एतेषां निक्षिपेत् पिण्डे³ वज्रगोलो तु वेष्टयेत्⁴ ॥ ५१ ॥
मूषामध्ये तु निक्षिप्य⁵ संधयित्वा⁶ प्रयत्नतः ।
भूमौ मूषां विनिक्षिप्य पुटं मूर्ध्नि प्रदापयेत्⁷ ॥ ५२ ॥
अनेनैव प्रदानेन⁸ बद्धमेति महारसः ॥ ५३ ॥
गोलकं⁹ धारयेद्वक्त्रे वर्षमेकं¹⁰ यदि प्रिये ।
जीवेत् कल्प¹¹सहस्राणि यथा नागो¹² महाबलः ॥ ५४ ॥
वर्षैर्द्वादशभिः¹³ साक्षात् रुद्ररूपस्तु¹⁴ जायते ।
गात्रस्य तस्य प्रस्वेदात्¹⁵ षष्टौ लोहास्तु¹⁶ काञ्चनम् ॥ ५५ ॥
(1) D and K read जीवकस्त्वेव. M reads जीवनो चैव. (2) स्कन्दं
चोत्तरवारुणि, a variant in B. मुक्तायुक्तेच्छवारुणी, a variant in D. गांधारी
नरवारुणी, a variant in M. (3) D reads एतेषां निक्षिपेन्वेष, which is
unintelligible. (4) D has वज्रा गोलं तु वेष्टयेत्. M has वज्रगोलन्तु
पेषयेत्. (5) This śloka is not found in D. (6) B reads
संधयित्वा. K reads